________________
तृतीयः काण्ड:
(१४१)
आस्पदं कृत्यपदयोरामोदो गंधहर्षयोः । आक्रंदो दारुणे रणे सारावरूदिते नृपे ॥३१९।। क्षणदं तोये क्षणदो गणके क्षणदा निशि ।
कपईः पार्वतीभर्तुर्जटाजूटे वराटके ॥३२०॥ सौमित्रिणा । अंगदं तु केयूरे स्यात् । केयूरे बाहुभूषणे यथाऐरावतास्फ़ालनविश्लथं यः संघट्टयन्नंगदमंगदेन । अंगदा याम्यदिग्गजो। दक्षिणदिक्वारणस्य वामनस्य पत्नी ॥३१८॥ आस्पदं कृत्यपदयोः। आसमन्तत्पदं आस्पदं । वर्चस्कादित्वात् । कृत्यं कार्य। पदे स्थाने यथा- निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्राश्च सरस्वती च । आमोदो गंधहर्षयोः । आमोदते आमोदनं वा आमोदः । द्वयोर्यथा- सांद्रामोदे हृदयकमले भंगतामेति भक्तिः । आक्रंदो दारुणे रुणे सारावरुदिते नृपे। आक्रन्दति अत्रेति आक्रन्दनं आक्रन्दयति वा आक्रदः । दारुणे रणे यथा- आक्रंदे महति जहर्ष वीरवर्गः । सारावे सशब्द रूदिते यथा-उदितरुदिताकंदं क्वापि क्वचित्कलगीतिकम् । नृपः पाणिग्राहाक्रांतस्य विजिगीषो रक्षिता । तत्र यथा-आकंदसंदीपितजैत्रयात्राः ॥३१९।। क्षण तोये । क्षणं ददाति क्षणदं । तोयं नीरं। क्षणदो गणके । गणको मौहूतिकः । क्षणदा निशि । यथा-आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन् । कपर्दः पार्वतीभवुर्जटाजूठे वराटके। कंशिरः पिपत्ति कपर्दः । शा शपीति (उ० २३७) बहुवचनाद्दः । के जले पईते वा। पार्वतीभर्तुर्महेश्वरस्य जटाजूढे यथा-कपर्दे कूदते यस्य जाह्नवी वीचिहस्तकः । वराटके यथाप्राप्ता काणकपदिकापि न मया तृष्णेऽधुना मुंच माम् । अत्र