________________
(१४०)
अनेकार्थसंग्रहः सटोकः
अर्बुदः पर्वते मांसकोलके दशकोटिषु । अर्द्धन्दुः स्यादतिप्रौढस्त्रीगुह्यांगुलियोजने ॥३१७।। गलहस्ते नखांकेऽर्धचन्द्रेऽगदस्तु वालिजे ।
अंगदं तु केयूरे स्यादंगदा याम्यदिग्गजी ॥३१८।। समर्थः । वायलिंगः । शक्तिसंपन्ने यथा-कोऽतिभारः समर्थानां । सम्बद्धार्थे हिते च यथा-तथा समर्थां गिरमूचिवांसं प्रत्याह देवानुचरं दिलीपः। सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनवप्तरि । सिद्धोऽर्थोऽस्य सिद्धार्थः। शाक्यसिंहो बुद्धविशेषः। तत्र सर्षपे च यथा-सिद्धार्थता स्फुरति तावदियं स्फुटव सद्वृत्तता भवति सर्वपयावदेव । अन्त्यजिनो महावीरस्तस्य वप्ता जनकस्तत्र यथा- सिद्धार्थपार्थिवसुतः सुकृताय वीरः ॥३१६।। अथ दान्ताः। अर्बुदः पर्वते मांसकीलके दशकोटिषु । अर्वति अर्बुदः । इंग्यविभ्यामुदः । पर्वते पुंसि । शेषयोः पुंक्लीबः। पर्वतविशेषे यथा-अत्याश्चर्यनिधानमर्बुद इति ख्यातो गिरिः। मांसकीलोऽक्षिरोगविशेषः । तत्र यथा-चक्षुश्चर्वितमबुंदैः । दशसंख्याकोटयो दशकोटयः। यदाह-प्रयुतं कोटिमथार्बुदमिति । अर्द्धन्दुः स्यादतिप्रौढस्त्रीगुह्यांगुलियोजने। गलहस्ते नखांकेऽर्धचन्द्रे । इन्दोरर्दू अद्धेन्दुस्तत्सदृशत्वादद्धेन्दुः। समेंऽशे अद्धं न वेति समासः । अर्द्ध इन्दोरिति असमांऽशे तु जरत्यादिभिरिति समासः । अतिप्रौढस्त्रीगुह्यांगुलियोजनं वात्सायनप्रसिद्धं ॥३१७।। गलहस्ते नखांके च यथा-अर्द्धन्दुस्तेन मे दत्तस्तेनाहं सखि विह्वला। अर्द्धचंद्रे यथा-तत्र व्यक्तं दृषदि चरणन्यासमद्धेन्दुमूले: । अंगदस्तु वालिजे । अंगं ददाति द्यति वा अंगदः । वालिजो वालिपुत्रस्तत्र यथा-तदात्मज इहांगदः प्रहित एष