________________
तृतीयः काण्ड:
(१३९)
ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकोषु च । वमथुर्वमने काशे गजस्य करसीकरे ॥३१३।। विदथो योगिनि प्राज्ञे शमथः सचिवे शमे । शपथः कार आक्रोशे शपने च सुतादिभिः ॥३१४।। शयथः स्यादजगरे निद्रालौ मरणेऽपि च । षग्रंथः करंजभेदे षड्ग्रंथा तु वचा शढो ॥३१५।। समर्थः शक्तिसंपन्ने संबद्धार्थिहितेऽपि च ।
सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनवप्तरि ।।३१६।। षडपि वनस्पतिभेदाः ॥३१२॥ वमथुर्वमने काशे गजस्य करसीकरे । वमनं वम्यतेऽसाविति वा वमथुः। द्वितोऽथुरित्यथुः। पुंसि । वमनं वांतिः । काशः क्षवथुः। गजस्य करसीकरे यथा-उद्भ्रांतो दंडशंडो टुमरवमथु (दंडो दुमरव: मधु) भियोमताराकरालम् ॥३१३।। विदथो योगिनि प्राज्ञे। वेत्ति विदथः । विदिभिदीति किदथः । वायलिंगः। शमथः सचिवे शमे । शाम्यति शमनं वा शमथः । भृशिशपीति (उ० २३२) अथः । शपथः कार आक्रोशे शपने च सुतादिभिः । शपनं शपथः । भृशिशपीत्यथः । कारः क्रिया। आक्रोशो गालिदानं । सुतादिभिः शानं सुतादिशरीरस्पर्शः । त्रिष्वपि यथा-न वृथा शपथं कुर्यादल्पेऽप्यर्थे नरो बुधः ॥३१४॥ शयथ: स्यादजगरे निद्राली मरणेऽपि च । शेते शयनं वा शयथः भृशिशपीत्यथः। निद्राली वायलिंगः। षड्ग्रंथः करंजभेदे। षड्ग्रंथयोऽस्य षट् ग्रंथः। पृषोदरादित्वात् साधुः । करंजो वृक्षः । तस्य भेदः । षग्रंथा तु वचा शढ़ी । द्वेऽपि ओषधी ॥३१५॥ समर्थः शक्तिसंपन्ने संवद्धाथिहितेऽपि च । समर्थयते समर्थ्यते संगतोऽर्थोऽस्येति वा