________________
(१३८) अनेकार्थसंग्रहः सटोकः mmmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwwwwwwww
मन्मथः कामचिंतायां पुष्पचापकपित्थयोः । रुदथः कुकुटशुनोः वंचथः पिककालयोः ॥३११॥ वरूथं तु तनुत्राणे रथगोपनवेश्मनोः । वयस्थो मध्यमवयाः वयःस्था शाल्मलिद्रुमे ॥३१२॥
न्युद्भ्यां शीङ इति कित्थः । रात्रिमात्रे यथा- निशीथदीपाः सहसाहतत्विषो बभूवुरालेख्यसमर्पिता इव । अर्द्धरात्रे यथाक्व प्रस्थितासि करभोरुघने निशीथे । प्रमथः शंकरगणे । प्रमथति प्रमथः। यथा-प्रथमः प्रमथेषु यः। प्रमथा तु हरीतकी । हरीतकी पथ्या ॥३१०॥ मन्मथः कामचिंतायां पुष्पचापकपित्थयोः । मनो मथ्नाति मन्मथः । पृषोदरादित्वात्साधुः । मथति चित्तं रागिणामिति वा। ऋमिमथिभ्यां चेति साधुः। कामचिंतायां यथा-तमथ मन्मथमन्मतभाषिणः। पुष्पचापे यथा-मधुर्नृणां मन्मथसाहचर्यादसावनुक्तोऽपि सहाय एव। कपित्थो वृक्षः । रुदथः कुक्कुटशुनोः । रोदिति रुदथः। विदि भिदीति किदथः। वंचथः पिककालयोः। वंचति वंचथः। भृशीशपीत्यथः । (उ० २३२) ।।३११॥ वरूथं तु तनुत्राणे रथगोपनवेश्मनोः । वृणाति वरूथं । भृवृभ्यामूथः। रथगोपने पुंक्लीबः । तनुत्राणे कवचे यथा-वरूथमिव पाथोदैदिननाथस्य निर्ममे। रथगोपने यथा-अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनु तः। वेश्म गृहं । वयःस्थो मध्यमवयाः। वयसि यौवने तिष्ठति वयःस्थः । वायलिंगः । तत्र यथा-एते वयःस्थाः स्थपुटेऽपि मार्गेवयःस्था शाल्मलिद्रुमे। ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकोषु च। वयांसि तिष्ठत्यत्रेति वयसे तिष्ठति इति वा वयःस्था