________________
द्वितीयः काण्डः
(१३७)
उन्माथो मारणे कूटयंत्रसंघातयोरपि ।। ०क्षवयुः काशे छिक्कायां कायस्थोऽक्षरजीवकः ॥३०८।। परमात्मा च कायस्था हरीतक्यामलक्यपि । *दमथो दमने दंडे निग्रंथो निस्वमूर्खयोः ॥३०९॥ श्रमणे च निशीथस्तु रात्रिमात्रार्द्धरात्रयोः ।
प्रमथः शंकरगणे प्रमथा तु हरीतकी ॥३१०॥ उपस्थसंस्थापितपाणिपल्लवः ॥३०७॥ उन्माथो मारणे कूटयंत्रघातकयोरपि । उन्मथनं ऊर्ध्वपातान्मथ्यतेऽनेन वा उन्माथः। उन्मथति वा बाहुलकादुपसर्गादपि ज्वलादित्वाण्णः । मारणे यथा-प्रत्यर्थिपार्थिवोन्माथः। कूटयंत्रे यथा-उन्मादबद्धगात्रस्य मृगस्येव विचेष्टितम् । घातको हंता । तत्र वायलिंगः। मंखस्तु कूटयंत्रकमुन्माथं न स्त्रीनावधघातयोः इत्याह। क्षवथुः काशे छिकायां । क्षवणं क्षवयुः। द्वितोऽयुरिति अयुः। पुंसि । द्वयोपथा-अभीक्ष्णक्षवयूद्गारसंतापाचांतविग्रहः। कायस्थोऽक्षरजीवकः। परमात्मा च। काये तिष्ठति कायस्थः। अक्षरजोवके यथाकायस्थेनोदरस्थेन मातुर्मासं न भक्षितम् ।।३०८।। परमात्मनि यथा-कायस्थोऽपि न कायस्थः। कायस्थोऽपि न दृश्यते । कायस्था हरीतक्यामलक्यपि । हरीतक्यामलक्यो वृक्षो । दमथो दमने दंडे । दमनं दाम्यंत्यनेन वा दमथः । भृशीशपीति बहुवचनादथः । दंडश्चतुर्थ उपायः। निग्रंथो निस्वमूर्खयोः । श्रमणे च । निर्गतो ग्रंथो द्रव्यं शास्त्रं वाऽस्य निग्रंथः। निस्वमूर्खयोर्वायलिंगः । त्रिष्वपि यथा - निग्रंथो हस्यते विटः ॥३०९।। निशीथस्तु . रात्रिमात्रार्द्धरात्रयोः । नितरां शेरते प्राणिनोऽत्रेति निशीथः ।
• मु० उद्रथस्ताम्रचूडे स्यान्महेन्द्रमहाकामुके। क्षवथु० । * मु० गोग्रन्थिस्तु करीवे स्याद्गोष्ठे गोजिबिकोषधौः ।