________________
(१३६)
अनेकार्थसंग्रहः स्टोकः
मल्लिकांगारधान्योश्च हारितो विहगान्तरे । मुनो छद्मन्यथाश्वत्थः पिप्पले गर्दभांडे ॥३०६॥ अश्वत्थेषपौर्णमास्यामतिथिः कुशनंदने ।
• क्रुध्यागंतावथोपस्थः पायुमेढांकयोनिषु ॥३०७।। च सूनृतं। मंगलं कल्याणं तत्र धर्ममात्रे क्लीबे तद्वति प्रियसन्योक्तौ च वायलिंगः। द्वयोर्यथा-सूनुः सूनृतवाक् स्रष्टुविससों जितश्रियम् । हसन्ती शाकिनीभिदि मल्लिकांगारधान्योश्च । हसति हसती ॥३०५।। मल्लिका दीपवाधारः। अंगारधानी अंगारशकटी। तत्र यथा-शीतं निर्गमयंत्येते हसन्ती प्रांतवर्तिनः। हारीतो विहगान्तरे । मुनो छद्मनि । हरति हारीतः। हग् ईतण । विहगान्तरे यथा-मरिचोद्भ्रान्तहारीतामलयाद्ररूपत्यका। मुनौ मुनिविशेषे यथा-हारीतगद्यैगिरिशं स्तुवंति। छद्म कैतवं तत्र यथा-हारीतेन हरन्ति हन्त जनताचित्तानि वित्तेषिणः । अथ थान्ताः। अथाश्वत्थः पिप्पले गर्दभांण्डे । अश्व इव तिष्ठति अश्वत्थः । पृषोदरादित्वाद् द्वावपि वृक्षौ। तयोर्यथावनं तदश्वत्थकपित्थसंकुलम् ॥३०६॥ अश्वत्थेषपौर्णमास्यां । अश्वत्थेन चन्द्रयुक्तेन युक्ता पोर्णमासी अश्वत्था। श्रवणाश्वत्थान्नाम्न्य इति अप्रत्ययः। ईषस्य आश्विनस्य पौर्णमासी । तत्र यथा-अश्वत्थायां वितन्वंति पुरन्दरमहोत्सवम् । अतिथिः कुशनंदने । क्रुध्यागतौ । अतति अतिथिः। अतेरिथिः। अथोपस्थः पायुमेढ़ांकयोनिषु । उपतिष्ठते उपस्थः । पायुर्मुदः। मेढ़ पुश्चिह्न। अंक उत्संगः । योनिः स्त्रीचिह्न। सर्वेषु यथा*मु० कृध्यागन्तावव्यथस्तु व्यथाहोने च पन्नगे। अव्यथा तु हरोतक्या
मुपस्थो योनिलिङ्गयो ॥ उत्सङ्गगुदयोश्चापि समोपस्थितवत्यपि ।