________________
तृतीयः काण्डः
(१३५)
सुकृतं तु शुभे पुण्ये सुविधानेऽथ सुव्रता । सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सुव्रते ॥३०४।। सुनीतिधं वमाता स्यात्सुनयोरप्यथ *सूनृतं । .
मंगले प्रियसत्योक्ती हसन्ती शाकिनीभिदि ॥३०॥ सैकते रुजि। सैकतं तटं तत्र उपचारात् सिकताशब्दः । रुक् रोगविशेषः । शर्करायामपि ॥३०३।। सुकृतं तु शुभे पुण्ये सुविधाने । सुष्ठु क्रियते स्म सुकृतं । शोभनं कृतं वा । शुभं क्षेमं । पुण्यं श्रेयः । शोभनं विधानं यस्य सुविधानं । सुविहितमित्यर्थः । तत्र वायलिंगः। शुभे यथा-देवस्तनोतु नम्राणां सुकृतं पुण्यशालिनाम् । पुण्ये सुविधाने च यथा-सुकृतं दुष्कृतं चैव पुरुषस्य समं व्रजेत् । अथ सुव्रता सुखदोह्यसौरभेय्यां । शोभनं व्रतमस्या: सुव्रता । सुखेन दोह्यते सुदोह्या सा चासौ सौरभेयी गौश्च सुखदोह्यसौरभेयी । तस्यां यथा-सुव्रता केन नो वृता। सुव्रतोऽर्हति सव्रते । अर्हन् विंशस्तीर्थकरः । तत्र यथावंदे सुव्रतनेमिनौ। सद्वते वायलिंगः । तत्र यथा-वरं वरय सुव्रत ॥३०४।। सुनोतिधूवमाता स्यात्सुनयोरपि । सुष्ठु नीयते सुनयनं वा सुनीतिः। शोभनां नीतिरस्येति वा सुनीतिः । ध्रुवस्य औत्तानपादेर्माता ध्रुवमाता। शोभनो नयः सुनयः । अनयोरर्थयोः स्त्रियां। शोभनो नयोऽस्येति वा सुनयः। अस्मिन् पक्षे सुनीति शब्दो वायलिंगः । ध्रुवमातरि यथा - सुनीतिः सुषुवे ध्रुवं । सुनये यथा-सुनीतिः श्लाघ्यते न कैः। अथ सूनुतं । मंगले प्रियसत्योक्तौ। सुष्ठु ऊन्यते सून् । सून् च तत् ऋतं *मू० स्यात्सुनया सुरतं पुनः। मोहने सुरता देवभावे च सुहितं पुनः।
तप्ता भुक्ते सुष्ठुहिते सुनृतं । प्रियसत्यवाक् ।