________________
(१३४)
अनेकार्थसंग्रहः सटीक:
सम्मतिर्वांच्छानुमत्योः समितियुधि संगमे । साम्ये सभायामीर्यादौ संवित्तिय विवादयोः ॥३०२।। स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिन्ननिश्चलो ।
सिकताः स्युर्वालुकायां सिकता सैकते रुजि ॥३०३॥ हरिराक्रमणेन सनति किल बिभृत। भियेत्यसंभवः। ध्वनिः शब्दः । संगतिर्ज्ञानसंगयोः। संगच्छतेऽनया संगमनं व। संगतिः। स्त्रियां । ज्ञाने यथा - षडंगसंगतिः कस्य । संगे यथा-संगतिः सुजने जने ॥३०१।। संमतिर्वांच्छानुमत्योः। संमननं संमतिः। स्त्रियां। द्वयोर्यथा-संमतिर्न विमतिर्न योगिनः । समितियुधि संगमे । साम्ये सभायामीर्यादौ । संयति अस्यां समदनं वा समितिः । स्त्रियां। युधि संगमे सभायां च यथा - समितौ रभसादुपागतं । सगदः संप्रतिपत्तुमर्हसि । इर्या आदिर्यस्यासौ ईर्यादिः। यदाह-ईर्याभाषणादाननिक्षेपोत्सर्गमंज्ञकाः। पंचाहुः समितीः। तत्र साम्ये च यथा-शमिनां समितिः श्रेष्ठा । संवित्तिय॑विवादयोः । सम्यक् वदनं संवित्तिः। धीबुद्धिस्तत्र यथा-विकल्पैर्मोहितं विश्वं निजसंवित्तिकल्पितः । अविवादे यथा-संवित्तिरुभयोरपि ॥३०२।। स्थापितं निश्चिते न्यस्ते । स्थाप्यते स्म स्थापितं। वायलिंगः । निश्चिते यथा-प्रमेयः स्थापितो येन । न्यस्ते यथा-वक्षः स्थापितकौस्तुभः । स्तिमितौ क्लिन्ननिश्चलौ। स्तिम्यते स्म स्तिम्यति वा स्तिमितः । वायलिंगः । क्लिन्ने यथा-अंभोदांतः स्तिमितवसना । निश्चले यथा-ध्यानस्तिमितलोचनः। सिकताः स्युर्वालुकायां । सिकि: सौत्रः सिक्यंते स्म सिकताः। पृषिरंजोति (उ० २०८) किदतः। प्रायेण स्त्री भूम्नि यथा-रसिकतासिकतास्त्रिव दुधियाम् । सिकता