________________
तृतीयः काण्ड:
स्थपतिः सौविदेऽधीशे बृहस्पतीष्टयज्वनि । कारुके च संततिस्तु तनये दुहितर्यपि ॥ ३०० ॥ परंपराभवे पंक्तौ गोत्रविस्तारयोरपि । संनतिः प्रणतिध्वन्योः संगतिर्ज्ञानसंगयोः ||३०१ ॥
(१३३)
संघातो घातसंघयोः । संहननं संघातः । घाते यथा-खड्गसंघात पातितः । संघे यथा - योधसंघातभीतः । संहिता वर्णसंयोगे शास्त्र वेदैकदेशयोः | संधीयते स्म संहिता । ते धाग इत्यनेन हिरादेशः । वर्णानामकारादीनां संयोग: संधिः । तत्र यथासंहितैकपदे नित्या नित्या धातूपसर्गयोः । शास्त्रैकदेशे यथाईशानसंहिता । वेदैकदेशे यथा - शाकल्यसंहितामनुप्रावर्षत् पर्जन्यः ।। २९९ ।। स्थपतिः सौविदेऽधीशे बृहस्पतीष्टयज्वनि । कारुके च । स्थापयति स्थपतिः । खल्यमीति ( उ० ६५३) उपलक्षणादति: । पृषोदरादित्वाद्ध्रस्वः । अधीशः स्वामी । तत्र वाच्यलिंग: । सोविदः कंचुकी । तत्र यथा - स्थपतिनिपतकक्ष्ये को विशेद्राजहर्म्ये । बृहस्पतीष्टिरिष्टिविशेषो बाजपेययागानंतरं क्रियते तस्यायो यज्वा तत्र । कारुकस्तक्षा । तत्र अधोशे च यथाजगत्त्रयैकस्थपतिस्त्वमुच्चकः । संततिस्तु तनये दुहितर्यपि । परंपराभवे पंक्ती गोत्रविस्तारयोरपि । संतन्यते संततिः । स्त्रियां क्ति: । तनये यथा - संततिः शुद्धवंश्या हि परत्रेह च शर्मणे । दुहतरि यथा - पायाद्वो दधदर्द्धाङ्गे तुहिनाचलसंततिम् ॥ ३०० ॥ परंपराभवे यथा - चितासंततितंतुजालनि बिडस्यूते वलग्नाप्रिया । पंक्तौ यथा - पश्यैतां तरुसंतति कुसुमितां संतापतापच्छिदम् । गोत्रे यथा - रघुरिक्ष्वाकुसंततिः । विस्तारे यथा - अंतको ध्वांतसंततेः । संनतिः प्रणतिध्वन्योः । संनमनं संनतिः । प्रणतौ यथा
1