________________
(१३२)
अनेकार्थसंग्रहः सटीकः संवतः प्रलयेऽक्षद्रौ संहतं मिलिते दृढे । स्खलितं छलिते भ्रषे संस्कृतं लक्षणान्विते ॥२९८।। भूषिते कृत्रिमे शस्ते संघातो घातसंघयोः ।
संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः ॥२९९।। मेकान्तस्थानविशेषः । तत्र यथा - शुद्धान्ते मंत्रणं राज्ञां । अवरोधनं अन्तःपुरम् । तत्र पुंक्लीबः । तत्र यथा-शुद्धान्तरक्ष्या जगदे कुमारी। संख्यावान्मितसुधियोः। संख्या एकत्वादिविचारणा वाऽस्त्यस्य संख्यावान् । द्वयोर्यथा-संख्यावन्तो भवन्ति सत्पुरुषाः। सरस्वानुदधौ नदे। सरः प्रसरणमस्त्यस्य सरस्वान् । द्वयोर्यथा-सरस्वतिपदं चित्तं सरस्वति निधेहि मे ॥२९७।। संवत: प्रलयेऽक्षद्रौ। संवृत्यतेऽनेन संवृतः । प्रलये यथासंवत॑शंभुकैवत: कुरुते विश्वयादसां । अक्षद्रुर्बिभीतकः । तत्र यथा-संवर्ते वर्त्तत्ते कलिः। संहतं मिलिते दृढे । संहन्यते स्म संहतं । वायलिंगः। मिलिते यथा-न संहतास्तस्य न भेदवृत्तयः। प्रयाणि वाग्छन्त्यसुभिः समीहितुं। दृढे यथा-संहिताखिलसंधयः। स्खलितं छलिते भ्रषे। स्खल्यते स्म स्खलनं वा स्खलितं । छलिते वाच्यलिंगः। तत्र यथा-कलिनास्खलितः खलु भ्रषो यथोचितात् । रूपाभ्रंशः । तत्र यथा-स्खलिते स्खलिते वध्य इति चेत्क्रियते मतिः । संस्कृतं लक्षणान्विते । भूषिते कृत्रिमे शस्ते । संस्क्रियते स्म संस्कृतं । वायलिंगः । लक्षणेन प्रकृतिप्रत्ययविभागेन अन्वितं लक्षणान्वितम् । तत्र क्लीबे इत्येके । कृत्रिममुत्पाद्यं । तयोर्यथा - स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसंकरः। भावशुद्धिविहितर्मुदं जनो नाटकरिव बभार भोजनैः ॥२९८॥ भूषिते यथा-मस्कुरीवल्कसंस्कृतः । शस्ते यथा- शुष्मणि प्रणयिनाभिसंस्कृतैर्हवींषि जुहवांबभूविरे ।