________________
(१३०)
अनेकार्थसंग्रहः सटोकः
विजातो विकृते जाते विजाता तु प्रसूतिका । विवर्ती नर्तने संघेऽपावृतौ विकृती रुजि ॥२९२॥ डिबे विकारमद्यादौ विपतिर्यातनापदोः । विच्छित्तिः स्यादंगरागे हावविच्छेदयोरपि ॥२९३।। विधाता द्रुहिणे कामे विनेता देशके नृपे ।
वृतांतस्तु प्रकरणे कास्ने वार्ताऽ.कारयोः ॥२९४॥ अपावृत्तिरपावर्त्तनं । तत्र यथा-अहो दशास्यस्य दशाविवर्त्तः । विकृती रुजि । डिबे विकारमद्यादौ । विक्रियतेऽनया विकरणं वा विकृतिः । स्त्रियां। चतुर्वर्थेषु ॥२९२।' डिबो विप्लवः । विकारे यथा - मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः । मद्यादयो मद्यमांसनवनीतमधुदुग्धदधिघृततैलपक्वान्नगुडरूपा दश । तत्र यथा-कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम् । विपत्तिर्यातनापदोः । विपद्यतेऽनया विपदनं वा विपत्तिः । यातना नारकीव्यथा। आपदि यथा- संपत्तौ च विपत्तौ च महतामेकरूपता। विच्छित्तिः स्यादंगरागे हावविच्छेदयोरपि । विच्छिद्यतेऽनया विच्छेदनं वा विच्छित्तिः । अंगरागे हावे च यथा - नवनवविच्छित्तिभूषितैरंगैः। विच्छेदे यथा-न भाति दानविच्छित्तिः प्रभूणां दन्तिनामिव ।।२९३॥ विधाता द्रुहिणे कामे । विधत्ते विधाता। द्वयोर्यथा-अकिंचित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुमित्वाद्विपदि परिवर्तामह इमे । विनेता देशके नृपे। विनयति विनेता। देशक: शिक्षयिता । तत्र वायलिंगः। द्वयोर्यथा-त्रिभुवनविनेता रघुपतिः । वृतान्तस्तु प्रकरणे कात्स्र्ने वार्ताप्रकारयोः । वृत्तोङतोऽस्य वृतस्यांत इति वृतांतः। प्रकरणे प्रस्तावे यथा - वृत्तांतागतमेतत्ते कथ