________________
तृतीयः काण्ड:
वर्गणजे साधुवाह्यश्वे विनयग्राहिते हृते । विनतः प्रणते भुग्ने विनता पिटकाभिदि ।। २९० ।। सुपर्णायां विहस्तस्तु विह्वले पंडकेsपि च । विश्वस्तः कृतविश्वासे विश्वस्ता विधवखियाम् ।।२९१॥
(१२९)
कृतः । विनीतस्तु निभृते निर्जितेन्द्रिये वाणिजे (ज्ये) साधुवाह्यश्वे विनयग्राहिते हृते । विनीयते स्म विनीतः । षट्स्वर्थेषु वणिजे साधुवाह्यश्वे च पुंसि । शेषेषु वाच्यलिंग: । निभृते यथा - उपस्थितं प्रांजलिना विनीतेन गरुत्मता । निर्जितेन्द्रिये वाणिजे च यथाविनीतजनविभ्राजिगर्भा सा नगरी बभौ ।। २८९ ।। साधुवाह्यश्वे यथा - वनायुजैविनीतैस्तैः । विनयग्राहिते यथा - नीतौ विनी - तैरवरोधरक्षैः । हृते अपनीते यथा - विनीतमोहोमृदुभिर्वनानिलैः । विनतः प्रणते भुग्ने । विनमति स्म विनतः । वाच्यलिंग: । प्रणते यथा-विनतवनिता चूडारत्नप्रभारुणितांघ्रिभिः । भुग्ने यथा - भ्रूभारविनतगात्रः । विनता पिटकाभिदि । सुपर्णायां । पिटका भाजनविशेषः ।। २९० || सुपर्णा गरुडमाता । तत्र यथा - वैनतेय इव विनतानंदनः । विहस्तस्तु विह्वले पंडकेsपि च । विगतौ हस्तावस्य विहस्तः । विहसति वा दम्यमिति तः । विह्वले वाच्यलिंगः | तत्र यथा - रामापरित्राण विहस्तयोधम् । पंडकः षंढ: । विश्वस्तः कृतविश्वासे । विश्वसिति स्म विश्वस्तः । वाच्यलिंगः। विश्वस्ता विधवस्त्रियां । कृतविश्वासे विधवस्त्रियां च यथा - सुचिरं स हसर्वसात्वतैर्भवविश्वस्तविलासिनीजनः । विजातो विकृते जाते । विजायते स्म विजातः । वाच्यलिंगः । द्वयोर्यथा - विजातजाती कुसुमावतंस | विजाता तु प्रसूतिका । यथा - विजाताजात्यपुत्रकं । विवर्त्तो नर्तने संघेऽपावृत्तो । विवर्त्तनं विवर्तः । नर्तनं नृत्तं । संघः समुदायः ।