________________
(१२८)
अनेकार्थसंग्रहः सटोकः
-
-
विगतो निष्प्रभे वीते विविक्तो वसुनंदके । विविक्तं स्यादसंपृक्ते रहःपूतपिवेकिषु ॥२८८।। विधुतं कंपिते त्यक्ते विकृतो रोग्यसंस्कृतः ।
बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये ।।२८९।। विवस्तेजोऽस्त्यस्य विवस्वान् । देवे यथा - विवस्वंतः स्वांते भयमुपययुम्तस्य वचसा । सूर्ये यथा-अधोविवस्वान् परिवर्तमानः। अथ विश्रुतं । ज्ञाते हृष्टे प्रतीते च । विश्रूयते स्म विश्रुतं । वायलिंगः । ज्ञातमेकेनापि । प्रतीतं सर्वप्रसिद्धं । तयोर्यथारामोऽसौ भुवनेषु विश्रुतगुणः । विदितं वुधिते श्रुते । विद्यते विदितं । वाच्यलिंगः। द्वयोर्यथा-ननु जनविदितैर्भवद्वयलीकैश्चिरपरिपूरितमेवकर्णयुग्मम् ॥२८७॥ विगतो निष्प्रभे वीते । विगच्छति स्म विगतः । वायलिंगः विशेषेण इतं गतं वोतं द्वयोर्यथा-विगततिमिरपंकं दश्यति व्योमयावत् । विविक्तो वसुनंदके। विविच्यते स्म विविक्तः । वसुनंदक: स्फुरकः । विविक्तं स्यादसंपृक्ते रहःपूतविवेकिषु । वालिंगः । असंपृक्ते पूते च यथा-प्रसन्नदिक्पांसु विविक्तवातम् । रहसि एकान्ते यथा-विविक्तं स्थानमाश्रयेत् । विवेकिनि यथा-विविक्तो धर्मतत्परः ॥२८८।। विधुतं कंपिते त्यक्ते । धुगृ कंपने। मतान्तरेण ह्रस्वांतः। विधूयते स्म विधुतः। वायलिंगः । कंपिते यथाकोपेन विधुताधर: । त्यक्ते यथा-रहसि विधुतवस्त्रा कान्तमालिंगति स्त्री। विकृता रोग्यसंस्कृतः। बीभत्सश्च । विकुरुते स्म विकृतः । वायलिंगः। रोगिणि यथा-हा हा क्षणादिदमभूद्विकृतं शरीरं । असंस्कृते यथा-विकृतवचनो मूर्खः कस्य प्रयाति न हास्यतां । बीभत्से यथा-कीचकारेण भीमोऽयं समन्ताद्विकृतः