________________
तृतीयः काण्ड:
घातेऽथ व्यायतं दोर्घव्यापृतेऽतिशये दृढे । वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे ॥ २८५॥
(१२७)
वासन्ती माधवी यूथीपाटलास्वथ वासितम् । वस्त्रच्छन्ने ज्ञानमात्रे *भावितेऽप्यथ वासिता ॥ २८६ ॥ स्त्रीकरिण्योः विवस्वांस्तु देवसूर्ये विश्रुतं । ज्ञाते हृष्टे प्रतीते च विदितं बुधिते श्रुते ॥२८७॥ वज्रयोः । विघ्ने यथा - कार्यव्याघातजातं हरतु गणपतिः । ।। २८४ ।। घाते यथा - व्याघ्रव्याघातजर्जरः । अथ व्यायतं दीर्घव्यापृतेऽतिशये दृढे । व्यायच्छते स्म व्यायतं । वाच्यलिंगः । अतिशेते अतिशयः । अतिशयवानित्यर्थः । दीर्घे दृढे च यथायुवायुगव्याहतबाहुरंसलः । शेषयोर्यथा- प्रान्तव्यायतदीर्घलोचनदलैः । वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे । वसन्ते भवा वासंत: भर्त्तुसंध्यादेरण् ( ६ | ३ |८९ ) । अवहितः सावधानः । तत्र वाच्यलिगः । सर्वेषु यथा - वासन्तैर्भासितं वनम् ॥ २८५ ॥ वासन्ती माधवीयूथीपाटलासु । वसन्ते वसन्ते पुष्यति वासन्ती । ऋत्वण् ( ६।४।१२५) अणन्तत्वात् ङीः । सर्वाः कुसुमलताः । अथ वासितं । वस्त्रच्छन्ने ज्ञानमात्रे भावितेऽपि । वास्यते स्म वासितं । वस्त्रच्छन्नभावितयोर्वाच्यलिंग: । वस्त्रच्छन्ने यथाचीनांशुकैर्वासितहर्म्यगर्भे । ज्ञानमात्रे यथा - वासितं पादपेष्वपि । भाविते यथा तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तदृष्टिः । अथ वासिता || २८६|| स्त्रीकरिण्योः । द्वयोर्यथा - एताः शृंगारितांग्यः करकमलजुषो वासिताः संचरन्ति । विविस्वांस्तु देवे सूर्ये ।
-
मु० भाविते विहगारवे । वासिता करिणीनायेर्विहितं तु कृते श्रुते ॥ विदितं स्वीकृते ज्ञाते विवस्वान् देवसूर्ययोः ।