________________
(१२६)
अनेकार्थसंग्रहः सटोकः
-NNAVANAVANA
वनितोत्पादितात्यर्थरागनार्यपि नार्यपि । वसतिः स्यादवस्थाने निशायां सदनेऽपि च ॥२८३॥ व्रततिस्तु प्रतानिन्यां विस्तारेऽप्यथ वापितम् ।
बोजाकृते मुंडिते च व्याघातो योगविघ्नयोः ।।२८४॥ वृधूड् वृद्धौ वा ण्यन्तः वद्यते स्म वद्धितं । वायलिंगः। छिन्ने यथा-कुठारैर्वद्धितस्तरुः। पूर्णे यथा-द्रविणवद्धितकोशनिरीक्षणात् । प्रसृते यथा-वद्धिता कीतिजाह्नवी। वनितं तु स्यात् प्रार्थिते सेवितेऽपि च । वन भक्तो। वन्यते स्म वनितं । वायलिंगः। द्वयोर्यथा-वनितं केन नो वनं ॥२८२॥ वनितोत्पादितात्यर्थरागनार्यपि नार्यपि। उत्पादितात्यर्थरागा नारी सामान्यनारी च । द्वयोर्यथा-वनेचराणां वनितासखानां । वसतिः स्यादवस्थाने निशायां सदनेऽपि च । वसन्त्यस्यामिति वसतिः । खल्यमीति (उ० ६५३) अतिः । स्त्रियां । अवस्थाने यथा-गन्तव्या ते वसतिरलकानामयक्षेश्वराणाम् । निशायां यथा-कतिचिदुषित्वा घसतीः। सदने यथा- देव्याविभ्रमसद्म पद्मवसतेः ॥२८३।। व्रततिस्तु प्रतानिन्यां विस्तारेऽपि । वियतेऽनया व्रततिः । गोव्रतचेति (उ० ६५५) अतिः । प्रततेर्जपादित्वात्पस्य वत्वं । वा। खियां। प्रतानिनी वल्ली तस्यां यथा-धराधरेन्द्रं व्रततीततीरिव । विस्तारे यथा-वात्या संवेगविष्वग्व्रततिबलयितस्फीतधूमाधिवास । अथ वापितं । बीजाकृते मुंडिते च । वाप्यते स्म वाच्यलिंगः । बीजाकृतं उप्तबीजं । द्वयोर्यथा-सुक्षेत्रमिव नो कस्य प्रीतये वापितं शिरः । व्याघातो योगविघ्नयोः। घाते । व्याहन्यतेऽनेन व्याहननं वा व्याघातः । योगे यथा-नवव्याघात१ मु० विस्तारे वहतुः पथि । वृषभे वहतिर्धेन्वा सचिवेप्यथ वापितम् ।।