________________
(७२)
द्वितीयः काण्डः
पामरजातो चण्डस्तु यमदासेऽतिकोपने । तीव्र दैत्यविशेषे च चण्डी तु शिवयोषिति ॥११५॥ चण्डा धनहरीशङ्खपुष्प्योश्चडा शिखाग्रयोः । बाहुभूषावलभ्योश्च चोडः कञ्च कदेशयोः ॥११६॥ भेत्सि हस्तिनम् । गोलको वृत्तो मृदादिगुलकस्तत्र यथा-भक्षिता वाप्ययो गुडाः । इक्षुविकारे यथा-इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । गुडा तु गुलिकास्नुह्योः । गोल एव सूक्ष्मो गुलिका । स्नुही वज्रवृक्षः । गुलिकायां यथा-कण्ठे किं कलकण्ठि चन्दनगुडाहारोऽपि नारोपितः । गोण्डस्योधुद्धनाभिके । पामरजाती। गूयते गोष:: “पिचण्डै" (उ० १७६) इति साधुः । गोरिव गण्डो यस्येति वा "पृषोदरादित्वात्" ॥११४॥ चण्डस्तु यमदासेऽतिकोपने । तीवे दैत्यविशेषे च । चण्डते इति चण्ड । चणेश्चमेर्वा "पञ्चमाडः" इति: ड; । अतिकोपने तीव्र च वाच्यलिङ्गः । यमदासे यथादासौ चण्डमहाचण्डौ अतिकोपने यथा-कुचप्रत्यासत्या हृदयमपि तेचण्डि कठिनम् । तीवे यथा-चण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः । दैत्यविशेष यथा-हत्वा चण्डं च मुण्डं च चण्डी तु शिवयोषिति । यथा-पुण्यं यायत्रिभुवनगुरोर्धाम चण्डीश्वरस्य ॥ ११५ ॥ चण्डा धनहरीशङ्खपुष्योः । द्वे अपि ओषधी । चूडा शिखाप्रयोः । बाहुभूषावलभ्योश्च । चोट्यतेऽनया चूडा "भिदादित्वात् " साधुः । शिखा केशपाशी मयूरादि शिखा वा तत्र यथाचूडाकर्म द्विजातीनाम् । यद् युद्धोत्सवदर्शनैकरसिकः श्रीताम्रचूडध्वजो देवः पश्यत नाधुनापि रचयत्येकातपत्रां महीम् । अग्रे अग्रमात्रे यथा-मेरु चूडाधिरूढः । बाहुमूषायां यथा