________________
द्वितीयः काण्डः
एकग्रहेऽथ खेटः स्याग्रामभेदे कफेऽधमे । स्फरे* मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥८५॥ वराहक्रान्ता च घटा घटने गजसंहतो । गोष्ठयां घट स्त्विभशिरःकूटे समाधिकुम्भयोः ॥८६॥ कित् तिः । कषणे स्त्रियाम् । धीमति वाच्यलिङ्गः । कर्षणे यथाज्याकृष्टिघृष्टि वचः। धीमति यथा-येषामिष्टाः कृषयस्तेऽपि मन्ये ॥ ८३॥ कोटयुत्कर्षाटनी संख्याश्रिषु । कुटति कोटि: "कृशकुटि" (उ० ६१९) इति णित् इः ङ्यां कोटी । उत्कर्षे यथा- ऋते रामानान्यः किमुत परकोटौ घटयितुं रसानाटयप्राणान् पटुरिति वितर्को मनसि नः । अटव्यां यथा-मौर्वीस्वयं यदधिरोहति चापकोटिम्। अधिर्धारा कोणो वा । संख्याभ्यो था-त्रयस्त्रिंश को टे त्रिदशमयमूर्तेर्भगवतः सहस्रांशोर्वेशे जयति जगदीशो दशरथः । यदोरस्निग्धैरसुरयुवतिश्वासपवनप्रकोपे सिद्धे न स्पृशति शतकोटिं शतमखः । खटस्तृणे कफे। टङ्कऽधकूपे प्रहारे । खटति खरः । तृणे यथा खरकटेराच्छादित मन्दिरम् । खादिः शवरथे (घे) किणे । एकग्रहे । खटति खाटि: "कमिवमि” इति बहुवचनात् णिदिः स्त्रियाम् ॥ ८४ ॥ एकग्रहोऽन्य परिहारेण तदेकनिर्बधः । शवरथे यथा-तस्यस्तद्विरहे कुरङ्गकदृशः खट्वापि खाटीयते । अथ खेरः स्याद् ग्रामभेदे कफेऽधमे । स्फारे मृगव्ये । खेरयति खेश्यतेऽनेन वा खेठः । अयमे वायलिंग: । शेषेषु पुंक्तीबः । ग्रामभेदे गह्वरप्राये ग्रामे यथा-खेट: खेटनिवासिभिः सरभसं संघोषितो विद्रतः । कफे यथा-खेट स्फेटय चेटकस्य *प्र० स्फारे