________________
अनेकार्थसंग्रह कोषः सटीकः
माया दम्भाद्रि, गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः ॥८३॥ कोट्युत्कर्षाटनी संख्याश्रिषु खस्टतृणे कफे ॥ टङ्कऽधकूपे प्रहारे खाटिः शवरथे किणे ॥ ८४ ॥ पुंसि । घटे पुंक्लीवः । यथा-आहूतैः कुटहारकैः । गेहे स्त्रीपुंसः । यथा-निर्वाता न कुटी प्रिया न गुमटी नास्ति द्वितीया पटी । कुटी मुरा चित्रगुच्छः कुम्भदासी । मुरा नालपर्णी नामौषधिः । चित्रगुच्छो नानास्तबकः कुम्भदासी या कुम्भं वहति । कुटं पूरयन्त्रयोः । मायादम्भाद्रिश्चंगेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ । कूटयति कूट्यते वा कूटम् । एकादशस्वर्थेषु पुंक्लोबः । पूरम् गोपुरम् । यन्त्रं मृगादिवधार्थ छलम् । यथा-छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुराम् ॥८२॥ माया रूपपरावर्तनादिका यथा-कूटयुद्धं विकल्पेऽपि । दम्भः कैतवम् । तत्र यथा-कुट्टनी कूटपट्वी । अद्रिऋडे यथा-तमङ्गदे मन्दरकूटकोटि व्याघट्टनोत्तेजनया मणीनाम् । सीराङ्गं दारुमयो लोहाधारः । मनृते असत्ये यथा-कूटवादी स रुद्रः । तुच्छमल्पम् । निश्चले यथा-कूटस्थोऽक्षर उच्यते । निश्चलं व्योम इति गौडाः । अयोमयो घनोऽयोधनः आघातार्थमयस्कारभाण्डम् । कुट्टनाधारो वा । कूटशाल्मलिरिति एको राशीर्धा यादिपुञ्जः । तत्र यथाभक्तानामागतान कालान् समाहृत्य स्वमायया । काले कूटच्छलात् कण्ठे कालकूटः कृतस्त्वया । भन्ने शृद्धेऽपि । कृष्टिः कर्षणधीमतोः। कर्षण कर्षति वा कृष्टिः ‘ह मुषिकृषिरिषि' (उ० ६५१) इति