________________
द्वितीयः काण्डः
कट्वकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गसुरभिकटुकाराजिकास्वपि ॥ ८१ ॥ कुटः कोटे शिलाकुट्ट घटे गेहे कुटी मुरा । चित्रगुच्छः कुम्भदासी कूटं पुरियन्त्रयोः ॥८२॥ टवी तेन । कृच्छे यथा-हा धिक् कष्टमनिष्टमस्तकरुणः कोयं विधेः प्रक्रम: ॥ ८० ॥ कट्वकार्ये मत्सरे च दूषणे । कटति कटुः "भृमृतृ सरि" (उ. ७१६) इति उः । अकार्ये दूषणे च क्लीबे । मत्सरो मात्सर्यं मसरी वा । यच्छाश्वतः । असोढापरसंपत्तेमात्सर्यमपि मत्सरः । तत्र मासरे क्लीबे मत्सरिणि वाच्यलिङ्गः । अकार्यमत्सरयोः पुंसि इति एके । अकार्ये यथा-कट्वाचारों हि दुर्जनः मत्सरे यथा-खलानां गुणिविद्वेषात् प्रकृत्या हृदयं कटु । दूषणे यथा-किं नु श्रोत्रक टूत्कर्णा त मधुपास्तस्य पारिजातननि । श्रोत्रदूषणं यथा भवतीत्यर्थः । कटू रसे तिक्ते प्रियङ्ग सुरभि कटुकाराजिकास्वपि । रसे पुंसि । तिक्ते सुरभौ च वाच्यलिङ्गः । प्रियङ्गः फलिनी । कटुका कटुरोहिणी राजिका राजसर्षपः । एषु स्त्रियाम् । रसे यथा-कट्वग्लोष्णभुजः शरद्यधिभुजो हेमन्तनिद्रालसा । तिक्ते यथा-त कटुस्तोंकमुष्णं च न करोति वितृष्णताम् । सुरभौ यथा-सतच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् । दुर्गन्धे चाप्रिये च उपचारात् ॥ ८१ ॥ कुट: कोटे शिलाकुट्टे घटे गेहे । कुटनं कुटति वा कुट: "अ:" (उ० २) इति अः । कोटः कौटिल्यम् । शिलाकुट्टः शिलाकुट्टकः पुरुषः । अनयोः xx० सुरा