________________
द्वितीयः काण्डः
-
यज्ञः स्यादात्मनि मखे नारायणहताशयोः । संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥७७॥ चेतनाऽस्त्रियोरहो हट्टाऽहालकयोभृशे । चतुष्कभक्तयोरिष्टमीप्सिते ऋतुकर्मणि ॥७॥ नामनि यथा-तिरोहितात्मा शिशुपालसंशया । गायत्र्यां यथामपन्ति संज्ञामधिसंध्यमग्रजाः । हस्तायैरिति आदिशब्दात् मक्षिविकोचनाद्यैरर्थस्य प्रयोजनस्य सूचने यथा-मुखार्पितैकाङ्गुलिसंशयैव मा चापलायेति गणान् व्यनैषीत् ॥ ७७ ॥ चेतनायां यथा-त्वक्भेदात् शोणितस्रावादामांसव्यथनादपि । संज्ञां न लभते यस्तु हस्ती गम्भीरवेद्यसौ। अर्कस्त्रियां यथा-षट् संज्ञायां रवेः सुताः ॥ अथ टान्ताः । अट्टो हट्टाहालकयो(शे । चतुष्कभक्तयोः । भट्टते अट्टयति वा अट्टः पुक्लीवः । हट्टे यथा-नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं समभूमिपालः । अट्टालके यथा-अट्टेषु वप्राय विभूषणेषु । भृशम् अत्यर्थ तत्र यथा-सर्वखापहृतौ हि कामुकजनस्याट्टायते कुट्टिनी । अटुं भृशमाचरतीत्यर्थः । यद्वा पुजीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः। अत्र अट्टम् अत्यर्थ हासोऽट्टहासः । गृहेऽपि इति मंखः । यथा-विशीर्णतल्यादृशतो निवेशः । चतुष्कः स्वस्तिकादिश्चतुष्पथं वा । भक्तं गोधूमादिचूर्णम् । इष्टमीप्सिते क्रतुकर्मणि । पूज्ये प्रेयसि संस्कारे योगे। इष्यते यजन इज्यते वा इष्टम्। ऋतुकर्मणि संस्कारे योगे च क्लीबे । अन्यत्र वाच्यलिङ्गः । ईप्सिते यथा-इष्टोऽयमर्थः शक्येत ज्ञातुं सातिशयेन चेत् । ऋतुकर्मणि यज्ञादिदाने यथा-हितमिष्टं च तप्तं च धर्मश्चायं कुलस्य ते ॥ ७८ ॥ पूज्ये यथा-प्रणनामेष्टदेवताम् । प्रेयसि यथा-आशु लचितवती