SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ (५०) अनेकार्थ-संग्रहकोषः सटीकः वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्ते वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥७५॥ व्याजः शान्येऽपदेशे च सजो संनद्धसंभृतौ । संजो ब्रह्मशिवौ प्रज्ञः प्राज्ञे प्रज्ञा तु शेमुषी ॥७६॥ स्वनवेगेषु यथा-वाजिनः शक्रसैन्यस्य समारब्धध्वनाजिनः । नाजिनश्च शरामध्यमविशन् द्रुतवाजिनः ॥ ७५ ॥ व्याजः शोठ्येऽ पदेशे च । व्यजनं व्याजः । शाठये यथा-निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् । अपदेशे छले यथा-काम्यव्याजातदियमपरा काप्यहो कामधेनुः । सज्जौ संनद्धसंभृतौ । सजति सज्जः । अन् सजायते वा “कचित्" इति डः । वाच्यलिङ्गः। संनद्धे यथा-मज्जन्ति सज्जे तव देव सैन्ये विरोधियोधाः । संभृतः परिपूर्णः प्रगुण इति यावत् । तत्र यथा-कर्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम्। संजौ ब्रह्मशिवौ । सजति संजः। द्वयोर्यथा-संजः संजायतां श्रिये ॥ अथ आन्ताः ॥ प्रज्ञः प्राज्ञे । प्रजानाति प्रज्ञः । “नाम्युपान्त्य” इति कः । वाच्यलिङ्गः । प्रज्ञा तु शेमुषी । प्रज्ञानं प्रज्ञा " उपसर्गादातः” (५।३।११०) इत्यङ् । शेमुषी बुद्धिः। यथा - आकारसदृशः प्रज्ञः प्रक्षया सहशागमः ॥ ७६ ॥ यज्ञः स्यादात्मनि मखे नारायणहुताशयोः । इज्यते । यजनं वा यशः “ यजस्वपि" इति नः । मखे यथास विश्वजितमारेमे यज्ञं सर्वस्वदक्षिणम् । शेषेषु यथा-यज्ञं हिं जिशासति विज्ञ एव । संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने चेतनाऽस्त्रियोः । संज्ञायतेऽनया संजानाति संज्ञानं वा संज्ञा ।
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy