________________
द्वितीयः काण्डः
(४७)
द्विजा भार्गी रेणुकयोर्ध्वजः पूर्वदिशो गृहे ॥ शिश्नेचिढेपताकायांखट्वांगेशौण्डिकेऽपिच ॥६६॥ निजो नित्ये स्वकीये च न्युजः कुब्जे कुशेनु चि । अधोमुखेऽपि च न्युब्जं कर्मरगे तरोः फले ॥७०॥ प्रामा स्थानादुञ्चलितद्विजाः ।सर्वत्र वलिभिः कान्ता वृद्धव युवतिः । क्षितिः ॥ ६८ ॥ द्विजा भार्गी रेणुकयोः । भार्गी हञ्जिकाख्या ओषधिः। रेणुका हरेणुकाख्यं गन्धद्रव्यम् । ध्वजः पूर्वदिशो गृहे । शिश्ने चिढे पताकायां खट्वाङ्ले शौण्डिकेऽपि च । ध्वजति ध्वजः। शौण्डिके वाच्यलिङ्गः। शेषेषु पुक्लीवः। पूर्वदिग्गृहे व्याडिर्यथा-ध्वजोधूमश्च सिंहश्च श्वा वृषश्च खरो गजः ध्वाङ्गोऽष्टमश्च प्राच्याद्या ईशानान्ता अमी क्रमात् । शिश्ने यथा-उपसर्पन ध्वजः पुंसः साधनान्तर्विराजते चिह्ने यथा-विश्राणयतु वः श्रीमान् श्रेयांसि वृषभध्वजः । पताकायां यथा आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा । खट्वाङ्गे यथा-ध्वजपाणेः पिनाकिनः । शौण्डिके यथा-दशवक्रसमो ध्वजः ॥ ६९ ॥ निजो नित्ये स्वकीये च । नितरां जायते निजः “क्वचिद्" डः। नेनेक्ति वा “नाम्युपान्त्य इति कः । वाच्यलिङ्गः । द्वयोर्यथानिजौजसोज्जासयितुं जगद्हाम् । न्युजः कुब्जेकुशेनुचिः अधोमुखेऽपि च। न्युञ्जति न्युजः कुशेनुचि पुंसि । शेषयोर्वाच्यलिङ्गः। सर्वेषु यथा-न्युजमुब्जांचकार । रोगेऽपि । न्युजं कर्मरङ्गतरो. फले । कर्मरङ्गतरुः निम्बुकाख्यो वृक्षस्तस्य फले ॥ ७० ॥ प्रजा लोके संततौ च । प्रजायते प्रजों " क्वचित्” डः । द्वयो र्यथा नवाभ्युत्थानदशिन्यो ननन्दुः सप्रजाः प्रजाः । पिञ्जा तूल