________________
(३६)
अनेकार्थसंग्रह-कोषः सटीकः
क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्षसानुषु । शृंगः कूर्चशीर्षे शृंगी स्वर्णमीनविशेषयोः ॥४८॥ विषायामृषभौषध्यां सर्गस्त्यागस्वभावयोः । उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ॥५०॥ शार्शम् “शृङगशाादयः" ( उ० ९६ ) इति साधुः । श्रृंगस्येदं वा । विष्णुधनुषि यथा-विधेयमस्याभवदन्तिकस्थं शार्गे धनुमित्रमिव द्रढीयः । धनुर्मात्रे यथा-शाङ्गकूजितविज्ञेयप्रतियोधो रजस्यभूत् । शुंग्याम्राते वटे प्लक्षे। शाम्यति शुंगी "कमितमि” इति डिदंगः । गौरादित्वात् ङीः । त्रयोऽपि वृक्षाः । श्रृंगं चिविषाणयोः । क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्षसानुषु । शृणोति शीर्यते वा श्रृंगम् । “शृंगशाादयः” इति साधुः । सप्तस्वपि पुक्लीब : चिह्ने यथा-श्रृंगारश्रृंगं यदपांगभंगाः । विषाणे यथा-श्रृंगेण संस्पर्शनिमिलिताक्षी मृगीमकण्डूस्त कृष्णसारः ॥ ४८ ॥ क्रोडाम्बुयन्त्रे यथा – श्रृंगाणि द्रुतकनकोज्वलानि गन्धाः। कौसुम्भं पृथुकुचकुम्भसंगि वास । शिखरे यथा-अद्रेः शृंगं हरति पवनः किंखिदित्युन्मुखीभिः । प्रभुत्वोत्कर्ष योयथा
शृंगारूढविभूतयः । सानौ यथा कनकशिखरि शृंगे योऽभिषिक्तोऽ तितुंगे। शृंगः कूर्चशीर्षे । कूर्चशीर्षः जीवकाख्यः शाकविशेषः । शृंगी स्वर्णमीनविशेषयोः । विषायामृषभौषध्यां । “गौरादित्वात्। की। स्वर्णविशेषोऽलंकारमकरिका । मीनविशेषो मुद्गरप्रिया ॥४९॥ विषा गुल्ममेदः। सर्गस्त्यागस्वभावयोः । उत्साहे निश्चयेऽ ध्याये मोहानुमतिसृष्टिषु'। सृज्यते सर्गः । त्यागे निक्षे यथा