________________
द्वितीयः काण्डः
(३५)
वङ्ग त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः । व्यङ्गो भेके हीनाङ्गे च वेगो रयप्रवाहयोः ॥४७॥ रेतः किंपाकयोश्चापि शाझं विष्णुधनुर्द्धनुः । शुङ्ग्याम्राते वटे प्लक्षेशृङ्ग चिह्नविषाणयोः ॥४८॥ विदध्याल्लिङ्गहर्षणम् । चिह्न यथा-लिङ्गैर्मुदः संवृतविक्रियास्ते ॥४५॥ शिवमूर्ती यथा-पाताले यानि लिङ्गानि अनुमाने यथा-लिङ्ग धूमो हुतभुजः कार्य धर्मानुवृत्तितः।। सांख्योक्तायाः प्रकृतेः कार्यभूता विकृतिः । तत्र यथा-लिङ्गा क्लिङ्गमिवानुरूपचरितं पुत्रं स लेभे मुनिः । वङ्गः कार्पासे वृन्ताके वङ्गा जनपदान्तरे । वङ्गति वङ्गः। जनपदान्तरे पुंभूम्नि यथा-वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ॥ ४६ ॥ वङ्ग त्रपुणि सीसे च । द्वयोर्यथा-वङ्गपत्ररचनाविचित्रिते। वल्गुश्छागमनोज्ञयोः । वलते वल्गुः । “फलिवलि" इति गुः । मनोज्ञे वार्यालङ्गः। तत्र यथा-जरमुर्जलानि जलमडकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि मन्दम् । व्यङ्गो भके हिनाङ्गे च । विचित्रं विगतं वा अङ्गमस्य व्यङ्गः । हीनाङ्गे वाच्यलिङ्गः । तत्र यथा-सितरुचिवपुषाऽसौ लक्ष्यते संप्रति द्यौविगलितकिरणेन व्यङ्गितकक्षणे च । वेगो रयप्रवाहयोः । रेतः किंपाकयोश्चापि । विज्यतेऽनेन वेगः । अजत्यनेन वा वेगः “गम्यमि" इति गः । रये यथा पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते । प्रवाहे यथा-बाष्पों वाहीकनारीणां वेगवाही कपोलयोः ॥ ४७ ॥ रेतसि यथा-न तीव्रवेगोऽभिमतोऽङ्गनानाम् । मलोत्सर्गे प्रभावेशृङ्गारभावेऽपि । शाङ्ग विष्णुधनुर्धनुः। शृणोति