________________
अनेकार्थसंग्रह - कोषः सटीक :
गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे । लङ्गः संगे च षिड्गे च लिङ्गं मेहनचिह्नयोः ॥ ४५ ॥ शिवमूर्तावनुमाने सांख्योक्त विकृतावपि । वङ्गः कार्पासे वृन्ताके वङ्गा जनपदान्तरे ॥ ४६ ॥
(३४)
66
यथा - अनङ्गरङ्गप्रतिमं तदङ्गम् | युद्धभुवि यथा - समजन रणरङ्गे यस्य वक्षोऽभिघातैर्दलितरदनदण्डः स्वः करेणुः करेणुः । रागे लौहित्यादौ यथा-पञ्चरङ्गः कुरङ्गोऽयम् । रङ्ग तु त्रपूणि । यथारङ्गस्यात्र पलान्यष्टौ । रागः स्याल्लोहितादिषु ॥ ४४ ॥ गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे । रज्यतेऽनेन रञ्जनं वा रागः । घञ् भावकरणे " ( ४ । २ । ५२ ) इति नलोपः । लोहितादिषु यथा - निशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरः । गान्धारादौ यथा - मालव कैशिकी मुख्यग्रामरागपवित्रितः । क्लेशा अविद्यादयः । यदाह-अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः । आदिशब्दात् विषयाभिलाषादि । तत्र यथा न केवलं रागमुक्तं वीतराग मनस्तव । अनुरागे यथा- प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः । मत्सरे यथा - मलिनात्मनाऽतिरागः प्रकटीकृत एव कोकिलखलेन । जलदानामभ्युन्नतिसमये वाचंयमी भवता । सङ्गपानकयोरपि यथा - रागः प्रतिष्ठां हृदये करोति । तर्षः प्रकर्षे गत एष रागात् । लङ्गः संगे च षिड्गे च । लङ्गनं लङ्गति वा लङ्गः । द्वयोर्यथालङ्गेन लङ्कं कुरुते न लिङ्गी । लिङ्ग मेहनचिह्नयोः । शिवमूर्तावनुमाने सांख्याक्तविकृतावपि । लिङ्गयते चिह्नयतेऽनेन लिङ्गयति चित्रीकरोति वा लिङ्गम् । लीनं गमयति वा पृषोदरादित्वात् " लातेर्वा किलिपल्या ( उ० १०२ ) इति इङ्गक् । मेहने यथा
""