________________
द्वितीयः काण्डः
-
--
-
अलब्धलाभे संगत्यां कार्मणध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च संनाहे भेषजे धने ॥ ४३ ॥ विष्कम्भादावुपाये च रङ्गः स्यान्नत्तयुद्भवोः। रागे रङ्ग तु पुणि रागः स्यालोहितादिषु ॥ ४४ ॥ बाहुरंसलः । कृतादिके यथा-युगान्तरेऽपि चेन्नाथ भवन्त्युच्छंखलाः खलाः । युग्मे यथा-स्तनयुग पत्रावृतं मा कृथाः । सर्वत्र क्लीचे। वैजयन्ती तु युगोऽस्त्री स्यन्दनाधंगे क्लीबं युग्मे कृतादिके। योगो विश्रब्धघातिनि ॥ ४२ ॥ अलब्धलामे संगत्यां कार्मणध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च संनाहे भेषजे धने विष्कम्भादावुपाये च। युज्यतेऽनेन योजनं वा योगः । द्वादशस्वर्थेषु। विश्रब्धघातिनि यथा योगं स्वप्नेऽपि नेच्छन्ति । अलब्धलाभे यथा-युवाभ्यामभिनिवृत्तयोगक्षेमस्य धज्रिणः । संगत्यां संश्लेषे यथा-हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव । कार्मणे यथा-योगं जानासि किं तन्वि येनायं किंकरो जनः । ध्याने धने व यथा-अनेन योगेन समिद्धतेजाः । युक्तियोजनं तत्र यथायदि भवति दैवयोगात् चित्राषष्ठी च मङ्गलदिनं च । वपुःस्थैर्यप्रयोगो रसायनं । तत्र यथा-योगेन जग्मुः पलितानि यस्य । संनाहे कवचे यथा-विरचितदृढयोगं योधमायोधनादौ । भेषजे यथा-योगेन रोगान् स भिषग् निहन्ति ॥ ४३ ॥ विष्कम्भादौ यथा-तिथिरिश्च नक्षत्रं योगः करणमेव च । उपाये सामदानादौ यथा-गृह्णन्ति दुर्गाणि नृपा हि योगैः । रङ्गः स्यान्मृत्त (नृत्य) युद्भत्रोः । रागे । रंजत्यस्मिन् रङ्गः "व्यञ्जनाद् घञ्" नृत्तभुवि