________________
द्वितीयः काण्डः
___ (३७)
अर्घः पूजाविधी मूल्येऽघं दुःखे व्यसनैनसोः । उद्द्यो हस्तपुटे वह्रौ श्लाघायां देहजानिले ॥५१॥ ओघः प्रवाहः संघातो द्र तनृत्तं परंपरा । उपदेशश्च मेघस्तु मुस्तके जलदेऽपि च ॥५२॥
सुवृष्टिसर्गादिव सस्यसंपदः । स्वभावे यथा सर्ग एव भवतामविक्रयः । उत्साहे यथा-संनयन्ते योधसर्ग निरीक्ष्य । निश्चये यथा-गृहाण शस्त्रं यदि सर्ग एष ते । अधीयतेऽध्यायो महाकाव्यादिविश्रान्तिस्थानम् । यथा सम्बन्धो महाकाव्यम् । मोहे यथा-संसारसर्गेण विमूढचेताः । अनुमतौ यथा-ग्राह्यः सर्गः सर्वकाले गुरूणाम् । सृष्टौ यथा अस्याः सर्गविधौ प्रजापतिरभूश्चन्द्रोनुकान्तिप्रदः ॥ ५० ॥ अथ घान्ताः ॥ अर्घः पूजाविधौ मूल्ये । अर्हणम् अर्घः : मघादित्वात्" घत्वम्, इयर्तीति वा " स्थार्तिजनिभ्यो घ:" इति घः । अघिः प्रकृत्यन्तरं वा । पूजाविधौ यथा-दत्तार्घाः सिद्धसंधैर्विदधतु घृणयः शीघ्रमहोविधातम् । मूल्ये यथा-सर्वस्यैव हि रत्नस्य व्रणेऽघ परिहीयते । पूजोपकारिद्रव्येऽपि यथा-तमय॑मर्घादिकयादिपूरुषः सपर्यया साधु सपर्यपूपुजत् । अधं दुःखे व्यसनैनसोः। अमति अधम् "मघाघ (घाघदीर्घादय)" इति साधु । दुःखे यथो हन्त्य, विपद्रुद्भवम् । व्यसने यथा-त्यजति कष्टमसार्वाचरादसून विरहवेदनयेत्यघशङ्किभिः। एनसि यथा-हरत्यचं संप्रति हेतुरेण्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः। उद्घो हस्तपुटे वह्नौ श्लाघायां देहजानिले । उद्घन्यते उद्घः निघोंघेति प्रशंसायां बाहुलकादन्यत्रापि साधुः । हस्तपुटः अञ्जलिः । श्लाघायां यथा-संघे प्रोधैर्गुणोधैरलघुभिरनधे