________________
(३०)
अनेकार्थ-संग्रहकोषः सटीकः
भगोऽर्कज्ञानमाहात्म्य-यशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मेश्वर्ययोनिषु ॥ ३६ ॥ भंगस्तरंगे भेदे च रुगविशेषे पराजये । कौटिल्ये भयविच्छित्योभंगा शणे भंगिः पुनः॥३७॥ यथा-भगगभस्तिनिरस्ततमस्ततिः । शेषेषु पुंक्लोवः । ज्ञानादिषु द्वादशसु यथा-भगवान् परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे । योनौ यथा-भगिनीभगभाग्यभवो विभवः ॥ ३६ ॥ भंगस्तरंगे भेदे च रुविशेषे पराजये । कौटिल्ये भयविच्छित्योः । मेज्यते अनेन भजनं वा भंगः। तरंगे यथा उत्तुंगैर्गाङ्गभंगै-झगिति विदधते पुण्यमंगं नताङ्गयः । भेदे यथा-दन्तभंगा हि नागानां श्लाघ्यो गिरिविदारणे । रुगविशेषे यथा-भंगेन भज्यमानेऽगे कुर्युरभ्यंगभंगिनः। पराजये यथा-व्यूहावुभौ तावितरेतरस्माद् भंगं जयं चापतुरव्यवस्थम् । कौटिल्ये यथा-ग्रीवाभंगाभिरामं मुहुरनुपतति स्यन्दने दत्त बद्ध) दृष्टिः । भये यथा संसारभंगेन विमुक्तसंगः। विच्छित्तौ यथा-पौलोमीकुचपत्रभंगरचनाचातुर्यमध्यापितः । भंगा शणे । शणं धान्यविशेषः तत्र यथा-भांगी वैश्यस्य मेखला ॥ ३७ ॥ भंगिः पुनः । भक्तिवीच्योः । भज्यते इति भंगिः "मण्यादित्वात्" इप्रत्यये "न्यङ्क-द्र" (४।१ । ११२) इति गत्वम् । स्त्रियां भक्तो विच्छित्तौ यथा भंगिभिरंगिकृतमानतांग्याः । वीच्यां यथा-भंगिभक्तया विरचिततनुः स्तम्भितान्तर्जलौघः । भागो रूपार्द्ध के भाग्यैकदेशयोः। भज्यते भागः । रूपार्द्धके यथा-भागोऽप्यभाग्येन न जातु लभ्यते । भाग्ये यथा-पूर्वान् महाभागतयाऽति शेषे। एकदेशे यथा अधःकथंचिद्धृत भूमिभागम्। भृगं त्वपत्रम्।