SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (२८) अनेकार्थसंग्रह कोषः सटीकः दुर्ग' पुनदुर्गमे स्याद् दुर्गा तु नीलिकोमयोः । नागो मतंगजे सर्व पुंनागे नागकेसरे ॥ ३२ ॥ क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥ ३३ ॥ माननमपि त्वय्येव यस्याः स्थितिः ॥ ३१ ॥ दुर्ग पुनर्दुर्गमे स्यात् । दुःखेन गम्यते अस्मिन्निति दुर्गम् “सुगदुर्गमाधारे (५।१।१३२२) इति साधुः । वाच्यलिङ्ग । यथा-पुराणि दुर्गाणि निशातमायुधम् । दुर्गा तु नीलिकोमयो । नीलिका शैवालम् । उमा गौरी । तत्र यथा-जर्यात जगदीशवन्दितसकलामलनिष्कला दुर्गा । वैजयन्ती तु 'दुर्गो राष्ट्रे वने दुर्ग दुर्गमे नरके पुरे इत्याह । नागो मतंगजे सर्प पुंनागे नागकेसरे । क्रुराचारे नगे दन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः । न अगो नागः । “नखादित्वात् " (३।२।१२८) साधुः । दशस्वर्थेषु । मतंगजे सर्पे च यथा-एकान् विशालशिरसो हरिचन्दनेषु नागान् बबन्धुरपरान्मनुजा निरासुः ॥ ३२ ॥ नागदन्तो निर्यहः । उत्तरपदस्थितः श्रेष्ठे यथा-गोनागैर्नगवत्तुङ्गः ॥ ३३ ॥ नागं रङ्गे सीसपत्रे स्त्रीबन्धे करणान्तरे । रङ्ग त्रपु । सीसपत्रं सीसकम् । तयोर्यथा-नागेन नागरागेण नागबीजेन सुन्दरि कुरु स्वर्णमयीं पृथ्वीं सशैलवनकाननाम् । स्त्रीबन्धः स्त्रीणां करर्णावशेषः । तत्र यथा-विनिर्मातुं त्वया नागं नागन्तव्यं देहे मम । करणान्तरं बवबालवादिभेदः । तत्र यथा-शकुनि चतुष्पदे नागे किंस्तुघ्ने 'प्र० दुर्गो कोटे दुर्गमे० प्र० नगे दन्ते. प्र० सरसिरुहेऽपि च.
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy