________________
द्वितीयः काण्डः
(२७)
अङ्गा नीवृद्विशेष स्युरिङ्गः स्यादिङ्गितेऽद्भुते । ज्ञानजङ्गमयोश्चापि खगोऽग्रहपक्षिषु ॥३०॥ शरे देवेऽपि खड्गोऽसौ खड्गि शृंगे च गण्डके । टङ्गः खनिजयास्योस्त्यागोवर्जनदानयोः ॥३१॥ इङ्गः स्यादिङ्गितेऽद्भुते । शानजङ्गमयोश्चापि । इङ्गयते इङ्गति वा इङ्गः । अद्भुते जङ्गमे च वाच्यलिङ्गः । ज्ञानेङ्गितयोर्यथा-इङ्गो म शायते मुनेः । अद्भुतजङ्गमयोर्यथा-तीर्थमिङ्गं गुरोरङ्गम् । जगत्यपि यथा-इङ्गमङ्गसफलीकृतं त्वया । खगोऽर्कग्रहपक्षिषु । शरे देवेऽपि । खं गच्छति खगः " नाम्ना गम" ५।१।१३१) इति डः । अर्कग्रहदेवेषु यथा-खगमयूखविभूषितमम्बरम् । पक्षिशरयोर्यथाखगपीतासृजो योधाः ॥ ३० ॥ खड्गोऽसौ खड्गि शृङ्गे च गण्डके । खडति भिनत्ति अनेनेति खड्गः “गम्यमि” इति गः। असौ खड्गि शृङ्गे च यथा-द्वारं खड्गिभिरावृतं बहिरपि प्रक्लिन्नगांण्डैगजैः गण्डके यथा-प्रायो विषाणपरिमोषलघूत्तमाङ्गान् खड्गांश्चकार नृपतिनिशितैः क्षुरप्रैः । टङ्गः खनित्रे जङ्घास्योः । तङ्गति अनेन टङ्गः "पृषोदरादित्वात्" तस्य टत्वम् । पुंक्लीवः । खनित्रे यथाटङ्गभङ्ग भूमिभागं नयन्ति । जङ्घास्योरिति जङ्घायां खड्गेच। त्यागो वर्जनदानयोः । त्यजनं त्यागः । द्वयोर्यथा–यस्त्यागं तनुतेतरां मुखशतैरित्याश्रियातायाः श्रियः । प्राप्यत्यागकृतावि 'मुद्रित मूले अधिकम्-गर्गी मुनिविशेषे स्वृषे किञ्चुलुकेपि च । टङ्कः खनित्रे जङ्घास्योस्त्यागो दर्जनदानयोः ॥ तुङ्गः पुंनागनगयोबुंधे स्यादुन्नतेऽन्यवत् ।। तुङ्गी प्रोक्ता हरिद्रायां बर्बरायामपीष्यते ॥