SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयः काण्डः __ (२५) शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि । शाखा द्रु मांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ २६॥ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायांलाङ्गलिकायां शिफाशाखाणिष्वपि ॥२७॥ प्वपि । वलये यथा-शङ्खर्भूषित-बाहुवल्लियुगले । दिनांशे यथाशङ्खमात्रशेषेऽह्नि । नागभेदे यथा-शङ्खकुलम् । शाखा द्रुमांशे वेदांशे भुजे पक्षान्तेरऽन्तिके । शाखति शाखा. “श्यति वा श्यतेरिश्च वा” इति खः । द्रुमांशे यथा-शाखामृगस्य शाखायाः शाखां गन्तुं पराक्रमः । वेदांशे यथा-सहस्रशाखाः श्रुतयः प्रथन्ते । भुजे यथा-शाखाशिखालम्बितबालवल्लिः शाखीव रेजे प्रथमो जिनेशः । पक्षान्तरे संततिविशेषे यथा-अलंकरोत्येष मदीयशाखाम् । अन्तिके यथा-सुखाय शाखानगरं न कस्य । हस्तांशद्वारांशपादांशेष्वपि । क्रमेण यथा-पञ्चशाखेन पाणिना अवति युवतिरेखा द्वारशाखावलग्ना । मुकुटमणिरश्मिरञ्जितशाखाग्रं चरणयोर्युगलम् ॥ २६ ॥ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफा शाखाघृणिष्वपि । श्यति शिखा "श्यतेरिश्र वा” इति खः । अग्रमात्रे यथा-आरूढः ससुपर्वपर्वतशिखाम् । चूडायां यथा-आनाशक्रशिखामणिप्रणयिनी । केकिचूडायां यथा- शिखिनां बर्हमारेषु केशान् । प्रधाने यथा--सा शिखाऽखिलयोषिताम् । ज्वालायां यथा-तप्ते महाविरहवह्निशिखावलीभिः । लाङ्गलिका अग्निशाखा नामौषधिः। शिफा कन्दः । तत्र यथा-शिखोद्भवानां कदलीलतानाम् । शाखायां यथा-विटपिनां वातावधूताः शिखाः । घृणौ रश्मौ यथा-खेदं सखे रि तमयू प.
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy