SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (२४) अनेकार्थ-संग्रहकोषः सटीकः मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययाः । रेखा स्यादल्पके छद्मन्याभोगाल्ल खयोरपि ॥२४॥ लेखो लेख्य दैवते च लेखा राज्यां लिपावपि । वीला तु शूकशिम्बायां गतिभेदे च नर्त्तने ॥ २५ ॥ उल्लेखे यथा-चित्रेऽपि तादृशी रेखा यादृशी कर्तुराकृतिः ॥२४॥ लेखो लेख्ये दैवते च । लिख्यते लेखः । लेख्ये यथा-नखपदलिपयोपि दापितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः । दैवते यथा-सलेखवर्गस्य विमुद्रमाननम् ॥ लेखा राज्यां लिपावपि । लिख्यते लेखा "भिदादित्वात्" अङ्ग राजी रेखा पङ्क्तिश्च। तत्र रेखायां यथा-अभिनवमदलेखाश्यामगण्डस्थलानाम् । पंक्तौ यथानवनगवनलेखाश्याममध्याभिराभिः । लिपो यथा-दिवस'गणनलेखाभूषिता भित्तिरेषा । चन्द्रांशाभोगयोरपि यथालेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे । वधूमुखें पाटलगण्डलेखम् । वीङ्खा तु शूकशिम्बायां गतिभेदे च नर्तने । विविधम् इति अनया वीङ्खनं वा वीङ्खा । शूकशिम्बा कपिकच्छ्रः । गतिभेदे नर्तने च यथा-यात्रानेहसि यस्य दिगविजयिनः काम्बोजवाहावली वीखोल्लेखविकासिनि क्षितिरजःपुढे वियच्चम्बति ॥२५॥ शङ्खः । कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि । शाम्यति शङ्खः “शमिमनिभ्यां खः” (उ० ८४) नखी गन्धद्रव्यमेदः अलिकास्थि ललाटप्रांतास्थि । निधिभेदे नख्यां च पुसि । अन्यत्र पुक्लीबः । कम्बौ यथा-शङ्खवनानन्तरपुष्पवृष्टिः निधिमेदे यथाद्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृश्वा । अलिकास्थनि 'यथा - शङ्खान्तरद्योति विलोचनं तत् । वलयदिनांशनागमेदे
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy