________________
द्वितीयः काण्डः
नखं पुनर्गन्धद्रव्ये नखः करजषष्ठयोः । न्युङ्खः सामविशेषस्य षडोङ्कार्यामतिप्रिये ॥२२॥ पुङ्खः स्यान्मङ्गलाचारे शराङ्गस्येनयोरपि । .. प्रेला पर्यटने नृत्ये दोलायां वाजिनां गतौ ॥२३॥ साधुः । सामविशेषस्य आदिसाम्नः सामवेदस्य आदौ हि षडोंकारा गीयन्ते । अतिप्रिये मनोज्ञे वाच्यलिङ्गः । तत्र यथा--दिव्यत्वव्यभिचारमेति न सखे न्युङ्खयमस्याकृतिः ॥ २२ ॥ पुत्रः पुनाति पूयते वा पुङ्खः । “पूमुहोः पुन मूरौ च " (उ० ८६) इति खः । मङ्गलाचारे शराड्ने च पुक्लीवः । मङ्गलाचारे यथावधूवरं पुङ्गितमङ्गनामिः । शराङ्गे यथा-तद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नानपुङ्ख शरम् । प्रेडा० । प्रेङ्क्षण घेता “केट" " (५।३।१०६) इति अः । चतुषु अर्थेषु यथा-एषा प्रीणयति विशेष. विदुषां प्रेक्षा न केषां मनः ॥ २३ ॥ मुखमुपाये । माते मुखम् "महेरुश्चास्य वा” इति खे साधुः । पुक्लीबः । उपाये यथावसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषमुखेन निष्क्रयम् । प्रारम्भे यथा-विलेमे कः प्राणान् रणमुखमुखे यं मृगयसि । श्रेष्ठे यथा-स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूल् नात्ममुखः क्वचित् । निःसरणे यथा-रथ्यामुखे प्रेङ्क्षति जीवितेशे । आस्ये यथा-नीरागा मृगलाञ्छने मुखमपि . .. स्व नेक्षते दर्पणे। रेखा० रिख्यते रेखा “भिदादित्वात्" साधुः । अल्पके यथा-रेखामात्रमपि क्षुण्णदात्मनो वर्त्मनः परम् । छद्मनि यथा-स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखरः । .. आभोगे यथा- आसीत्तस्या वदनकमले काऽपि लावण्यरेखा ।