________________
अनेकार्थसंग्रह कोषः सटीकः
शूकोऽनुकोशकिंशाः शोकेऽभिषवशुङ्गयोः । शूका हृल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपि ॥ २० ॥ शौकं शुकानां समूहे स्त्रीणां च करणान्तरे । सृका बाणोत्पलवाताः, स्तोकः स्याच्चातकाल्पयोः ॥२१॥
(२२)
भविष्यति ॥ १९ ॥ शूको० । शवति शूकः " घुयुहि" इति को दीर्घश्व | पंक्लीवः । अनुक्रोशः कृपा । किंशारुर्धान्यादेः शीर्षम् । द्वयोर्यथा - विभ्राणस्याप्यतिमधुरतां क्रुध्य ( क्षुध ) मानस्य दृप्तेः सद्यः पुंसो भवति कलमस्येव निःशूकभावः । अभिषवो मद्यसंधानम् । शुङ्गा नवोद्भिन्नपल्लवकोशी । शूका हृल्लेखे । हल्लेखो हल्लासः तत्र यथा— दृष्ट्रवा भोज्यगता यूकाः शूका केषां न जायते । श्लोक्य श्लोकतेः । पद्यबन्धे यथा - हस्तन्यस्तचतुः श्लोकः । यशसि यथा- पुण्यश्लोको नलो राजा ॥ २० ॥ शौकं० शुकानां समूहः शुकानामिदं वा शौकम् । शुकानां समुहे यथा कूवलयदलनीलं शौकमालोकयन्ति । त्रोणां करणान्तरे यथा - वेश्या एव हिं निशङ्कं शौक स्वौकसि कुर्वते । सुका० सरति सृकः "विचिपुषि” इति कित् कः । श्रृगालबकनिरयेष्वपि । सृकेति आयुधमेदेऽपि । स्तेकः • स्तूयते स्तोकः । भीणिति कः अल्पे वाच्यलिङ्गः । द्वयेर्यथा - स्तोकः स्तोकमपि स्तौति वारि वारिधरोज्ज्ञितम् ॥ २१ ॥ अथ खान्ताः। नखं । नखति गच्छति नखम् । स्त्रीक्लीबः । यथानखं मांसीवचा कुष्टं ॥ नखः करजषण्ढयोः । नास्ति समस्य नखः। नखादित्वात् । करजे पुंक्लीबः । तत्र यथा - नवनखपदमङ्ग गोपयस्यंशुकेन । षण्ढे पुंसि यथा - नखः सुखपराङ्मुखः । न्युङ्खः • नीयते न्यु ङखः " न्युङ्गवादयः " ( उ० ९० ) इति खे