________________
द्वितीयः का डः
(२१)
यादोऽस्त्रभेदयोर्मेद्र शाको द्वीपे नृपे द्रुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥१८॥ रक्षोऽमात्ये शुकं ग्रन्थिपणेऽरलुशिरीषयोः। शुल्कं घटादिदातव्ये जामातुश्चापि बन्धके ॥१६॥
यादोभेदे यथा-तभेदाः शिशुमारोद्रशङ्कवो मकरादयः। अस्त्रभेदे यथा-शङ्काकरः शङ्कुकरो नराणाम् । मेढ़ें यथा-न्यकुः शङ्कुसुगन्धेन । शाको० शकानामयं शक्यतेऽनेन शकनं वा शाकः । द्वीपे यथा-नत्वत्र हव्य इति विश्रुतनाम्नि शाकद्वीपप्रशासिनि सुधीषु सुधीभवन्त्या । नृपे यथा-शोकं शशाक न हि पाकरिपुविजेतुम् । द्रुमे यथा-शाकः शुकच्छदसमच्छविपत्रमालभारी हरिष्यति तरुस्तव तत्र चित्तम्। हरितके मूलकादौ पुंक्लीबः । तत्र यथा-तरुणं सर्षपशाकं नधौदन पिच्छिलानि च दधीनि । शषेषु पुसि । शुको० शुकगतौ के शुकः शेवति वा विचिपुषि (उ० २२) इति कित्कः । व्यासात् पाराशर्याजातो व्यासजः । तत्र यथा-पराशरसुतो व्यासो महाभारत चन्द्रमा; तस्य पुत्रो महायोगी शुको नाम महामुनिः । कीरे यथा-तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ १८॥ रक्षोऽमात्ये रावणमन्त्रिणि यथा । तावुभो शुकसारणौ । शुकं० क्लीये त्रयोऽपि वनस्पतयः । शुल्कं० । शलति शुल्कम् “ निष्कतुरुष्क" (उ० २६) इति साघुः । पुक्लीवः । घट्टादिदातव्ये यथाभकुप्यमादाय स शुक्लमाशु । जामातुर्बन्धके विवाहाय वराद् ग्राह्यं धनम् । यदजयः । शुल्को घट्टे विवाहाय वराद् ग्राह्ये धनेऽपि च । तत्र यथा-पिनाकारो पणं शुल्कं हा सीते. किं