________________
द्वितीय: : काण्ड:
(३०७ )
मण्डभेदे पलपिण्डे, सुपक्वकणिकेऽपि च ।। भूस्पृग् वैश्ये मानवे च राशिर्मेषादिपुञ्जयोः || ५३९ ।।
वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः || वशानाय्य वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥ ५४० ।।
मण्डभेदे पलपिण्डे सुपक्वकणिकेऽपि च । पिंशति पेशि: । " किलि पिलि" ( उ० ६०८ ) इति इः। ङघां पेशी । पश्चस्वर्थेषु । मां सिर्गन्धद्रव्यविशेषः । आसिकोश: प्रत्याकारः || ५३८ ।। मण्डभेदो मस्तु । पलपिण्डो मांसपिण्डस्तत्र यथा-मांसपेशीं परित्यज्य ग्रहीतुं मत्स्यमिच्छसि । सुपक्वा कणिका यत्र स पक्वान्नविशेष: पूरिकाख्यः । भूस्पृग् वैश्ये मानवे च । भुवं स्पृशति भूस्पृग् । वैश्यस्तृतीयो वर्णः । मानवो मर्त्यः । राशिमेंषादिपुञ्जयोः । अश्नुते राशिः । " अशोरश्वादि: " ( उ० ६८८ ) इति दिः । पुंसि । मेषादौ यथा - राशीनामुदयो लग्नम् | पुञ्जे यथा-अम्भश्च्युतः कोमल रत्न राशीनपांनिधिर्फेनपिनद्धभासः । । ५३९ ।। वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः । वष्टि कामयते वशः । वशनं वा “युवर्ण" ५।३।२८। इति अल् । वनति वा । " कृ वृ भृवनिभ्यः कित्" ( उ० ५२८) इति शः । स्पृहा इच्छा तत्र यथा - दुर्जने स्ववशवर्त्तिनि कः परिचयोऽथ दृढो वा । आयत्ते वाच्यलिङ्गस्तत्र यथा - यदीच्छसि वशीकर्तुमक्लेशेन जगत्त्रयम् । आयत्तत्वे यथा - सर्वः कार्यवशाज्जनोऽभिरमते । प्रभुत्वे यथा - वसूनि वाञ्छन्न वशी न मन्युना । अत्र हि वशः प्रभुत्वमस्यातीति वशी । वशा नार्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि । नार्यां यथा - वशाभिः स वशं नीतः । बन्ध्यगव्यां यथा - अकार्यसिद्धये नेयान्यङ्गतां विगुणान्यपि ।
जनो लोकः
स्यान्मत्सरः