________________
(३०६)
अनेकार्थसंग्रहः सटीकः
निशा हरिद्रयो रात्रौ पशुश्छागे मृगादिषु ॥ प्रमथेऽपि च पाशस्तु, मृगपक्ष्यादिबन्धने ।। ५३७ ||
कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः ॥ छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ।। ५३८ ||
यथा - तथा गृहीतं
।
प्रमथेऽपि च ।
र्शने यथा - सूर्यस्य नाशे कमलैर्निमीलितम् ॥। ५३६ || निशा हरिद्रयो रात्रौ । निश्यति निशा । " उपसर्गादातोडोऽश्यः " ५।१।५६ । इति डः । नेशन्त्स्यामिति वा स्थादित्वात् कः । हरिद्रयोरिति हरिद्रा दारुहरिद्रा च । रात्रौ शशिना निशामुखम् । पशु छागे मृगादिषु स्पशिः सौत्रः स्पशति पशुः । " स्पशि भ्रस्जेः स्लुक् च " ( उ० ७३१ ) इति उः । पुंसि । छागे यथा - व्रजन्ति तामाशुगति यशस्विनो रणाश्च मेधे पशुतामुपागताः । मृगादौ यथा - विषाणदंष्ट्रा नखकोटिपाटनैः परेषु युद्धं पशवः प्रयुञ्जते । प्रमथेऽपि - चेत्यत्र जातावेकवचनम् । तेन सर्वेऽपि गणा उच्यन्ते । तत्र यथापतिः पशूनामपरिग्रहोऽभूत् । पाशस्तु मृगपक्ष्यादिबन्धने । कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः । पाति पाशः । " पादावम्यमि" ( उ० ५२७ ) इति शः । पाशनं वा । मृगपक्ष्यादिबन्धने पुंक्लीबः । तत्र यथा - छित्वापाशमपास्य कूटरचनां भङ्क्त्वा बलाद् वागुराम् ||५३७ ।। कर्णान्त शोभनार्थ इति कर्णवाचिशब्दात् परत उत्तरपदस्थः पाशशब्दः प्रशंसायां वर्तते । यथा - पार्श्वतः कर्णपाशेन सर्वतो बन्धनं हिंसा | कचान्ते निकरार्थो यथा-तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः । छात्राद्यन्ते निन्दार्थो यथातं छात्रपाशं स मुनिः शशाप । पेशी मांस्यसिकोशयोः ।