________________
द्वितीयः काण्डः
(३०५)
पक्षान्तेऽण्टौ दर्शने च दंशो वर्मणि चर्मणि ॥ दोषे वनमक्षिकायां खण्डने भुजगक्षते ॥५३५॥ दशा व व्यवस्थायां, दशास्तु वसनाञ्चले ॥
नाशः पलायने मृत्यौ, परिध्वस्तावदर्शने ॥५३६।। भरैर्विकृतावासयत्पलम् । दर्शः सूर्येन्दुसङ्गमे । पक्षान्तेऽष्टौ दर्शने च । दृश्यते युगपत् सूर्याचन्द्रमसावत्रेति दर्शनम् वा दर्शः ॥५३४।। पक्षान्तेष्टि: कृष्णपक्षान्तयागः। तत्र सूर्येन्दुसङ्गमे यथा-दर्श दर्शन यजते पूर्णे पूर्णेन वै द्विजः। दर्शनम् आलोकनम् । दंशो व(च)मणि च(म)मषि । दोषे वनमक्षिकायां खण्डने भुजगक्षते । दशति दशनं वा दंशः। वनमक्षिकायां स्त्रीपुंसः। वर्मणि चर्मणि च यथा-विद्वः सदंशेऽङ्गकृतेऽपि दंशे। दोषे यथा-परदंशं न शंसन्ति सन्तः प्राणात्ययेऽपि च । वनमक्षिकायां यथा-आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैदंशनिवारणैश्च । खण्डने यथादशनदंशविकासिरदच्छदा । भुजगक्षते यथा-दंशेषु दंदशूकानामादध्याज्जलसेवनम् ॥५३५।। दशा व व्यवस्थायां । दश्यते दशा स्थादित्वात् कः। द्वयोर्यथा-निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननिर्वाणप्रदीपार्चिरिवोषसि । दशास्तु वसनाञ्चले । स्त्रीपुंसः। प्रायेण बहुवचनान्तः। यथाते सान्द्रीभूय सद्यः क्रमविशददशाशादशाली विशालम् । शश्वत्सम्पादयन्तो वरममलमलं मङ्गलं वो दिशन्तु । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने। नशनं नाशः। पलायने यथा-शत्रावतिबले प्राज्ञो नाशमित्य (मेवा)व धारयेत् । मृत्यौ यथा-अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । परिध्वस्तौ यथा-अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । अद