________________
(३०२)
अनेकार्थसंग्रहः सटोकः
अंशुः सूत्रादि सूक्ष्मांसे, किरणे चण्डदोधितौ ॥ आशा ककुभि तृण्णायामाशुस्तु व्रीहिशीघ्रयोः ॥५३०॥ ईशः स्वामिनि रुद्रे च, स्यादीशा हलदण्डके ॥ काशस्तृणे रोगभेदे कोशः कपो दिगम्बरे ॥५३१॥
तयोर्यथा - परस्परहवाभीतैस्त्वदीयहववृत्तिभिः। नाहमित्याह वाचं को नरेन्द्रा हवसत्क्षणे ।।५२९॥ अथ शान्ताः । अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितौ । अश्नुते अंशुः। “अशेरानोऽन्तश्च" (उ० ७१९) इति उः। पुंसि । सूत्रादि सूक्ष्मांशे यथा-अंशवस्तन्तुहेतवः। किरणे यथा-हिमांशुमाशुग्रसते तन्नदिम्नः स्फुटं फलम् । चण्डदीधितौ यथा- एषाब्जिनीषद्यदवाग्निराह सुदुग्निशावृत्तमिवेतदंशोः। आशा ककुभि तृष्णायाम् । आ अश्नुते अचि आशा अश्यतेऽनया(आश्यत्यनया)वा । “उपसर्गादातः" ५।३।११०। इति अङ् । द्वयोर्यथा-आदित्येन द्विजेनैव दक्षिणाशावलम्बिना । न केवलमनेनात्मादिवसोऽपि लघूकृतः। आशुस्तु व्रीहिशीघ्रयोः। अश्नुते आशुः। “कृवापाजि" (उ० १) इति उण् । व्रीहौ पुंसि । शीघ्रं शीघ्रगामिनि । वाच्यलिङ्गः। वीहौ यथा-आशूज जहावानिशमाशु शुक्षणौ। शीघ्रं यथातिग्मांशुराशुराशांतान् । शैघ्यऽपि । तत्र तु क्लीबे ॥५३०॥ ईशः स्वामिनि रुद्रे च स्यात् । ईष्टे ईशः। स्वामिनि वाच्यलिङ्गः। तत्र यथा-तमीशकामरूपाणामत्याखण्डलविक्रमम् । रुद्रे यथा-मातरं कल्पयंत्वेनामीशो हि जगतः पिता। ईशा हलदण्डके । हलीशां नेशते वेश्यास्त्यक्तं लब्धां भुजङ्गतः। क्राशस्तृणे रोगभेदे । काशते काशनं वा काशः। तृणे पुंक्लीबः। तत्र यथावस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाशकाशाः। रोग