________________
द्वितीयः काण्डः
(३०१)
सान्त्वं सामनि दाक्षिण्ये, नुवा मूर्वा सुवः स्रुचि ॥
हवस्तु सप्ततन्तौ स्यानिदेशाह्वानयोरपि ॥५२९।। विशेष्याख्यम् । यदाहुः वस्तूपलक्षणम् यत्र सर्वनाम प्रयुज्यते द्रव्यमित्युच्यते सोऽर्थोऽभेद्यत्वेन विवक्षितः। तत्र यथा-सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । गुणे प्रकृतिगुणे यथारजोजुषे जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमः स्पृशे। . चित्ते यथा-शुद्धसत्त्वस्य सर्वं हि क्षिप्रमेव विशुध्यति । व्यवसायोऽतिशयवद् वीर्यमवष्टम्भ इति यावत् । तत्र यथाक्रियासिद्धिः सत्वे वसति महतां नोपकरणे। स्वभावे यथासत्वान्तः स्फुरता यवा कृतगुणाध्यारोपतुच्छाय वा । पिशाचादौ यथा-सत्वेनाधिष्ठितः केन केन तेऽपहृतामतिः। यस्मादकपदे सर्वं वृत्तं तव तिरोहितम् । आत्मभावे विद्यमानतायां यथासत्त्वस्योभयवादिमानसलसदृष्टान्तवन्ध्यात्मनः। बले स्थामिन यथा-स्वभुजसत्ववशाज्जगती जितस्तव विसृष्टधनस्य च । प्राणेषु इन्द्रियादिषु दशविधेषु जन्तुषु जीवेषु च यथा-सत्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ॥५२८।। सान्त्वं सामनि दाक्षिण्ये । सांत्व्यतेऽनेन सान्त्वम् । सामनि यथा-शत्रौ सान्त्वमपक्रिया । दाक्षिण्ये यथा-सान्त्ववान शीलसम्पन्नः। सुवा मूर्वा । स्रवति स्रुवा । "निघृषि" (उ० ५११) इति किद् वः। मूर्वा ज्याहेतुः तृणविशेषः। स्रुवः स्रुचि । यथा-सुवैद्विजा जुह्वति हव्यमग्नौ । हवस्तु सप्ततन्तौ स्यान्निदेशाह्वानयोरपि । हूयते हवः। ह्वानं वा । “भावेऽनुपसर्गात्' ५।३।४२। इति अल् वाशब्दस्योत्वं च । सप्ततन्तौ अध्वरे यथा-अश्वप्रचारसद्योगाद्रेजुर्वीरा महाहवे । निदेश आज्ञा । आह्वानम् आकारणम् ।