________________
(३००)
अनेकार्थसंग्रह स्टीकः
फेरौ शम्यां पथ्याधात्र्योः शिविर्भुर्जे नपान्तरे । शुल्वं ताम्र यज्ञकर्मण्याचारे जलसन्निधौ ॥५२७।। सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः ।
पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ।।५२८। योगान्तरे यथा-वरीयान् परिघः शिवः। वेदः श्रुतिः। गुग्गुलुर्महिषाक्षः। वालुकमोबधिः। हरे यथा-स वः पातु शिवः शश्वद् यत्प्रपञ्चमहोदधौ । उत्पद्यन्ते विपद्यन्ते ब्रह्माद्या बुबुदा इव । पुण्डरीकद्रुमो द्रुमविशेषः। कीले यथा-शिवप्रबद्धाः शिशवस्तुरङ्गाः। शिवा झाटामलोमयोः। फेरौ शम्यां पथ्याधात्र्योः। षट्स्वर्थेषु स्त्रियाम् । झाटामला ओषधिः। उमा गौरी तत्र यथा-सा शिवा व: शिवाय ॥५२६।। फेरु: कोष्टा क्रोष्ट्री च तत्र यथाअशिवः शिवारुतः। शमी वृक्षः। पथ्या हरीतकी। धात्री आमलकी । शिविर्भूर्जे नृपान्तरे। शेतेऽस्मिन्नसौ वा शिविः। "छवि छिवि' (उ० ७०६) इति साधुः। पुंसि । भू| द्रुमः। नृपान्तरे यथा-सदस्यङ्गं देव्याः शिविनृपतिवशार्णवभुवः। याप्ययानेऽपि । तत्र तु स्त्रियाम् । यथा-तत्तद्विरागमुदितं शिबिकाधरस्थाः साक्षाद्विद्रुः स्म न मनागपि यानधुर्याः। शुल्वं ताने यज्ञकर्मण्याचारे जलसन्निधौ। शलति शुल्वम् । “शल्यतेरुचातः" (उ० ३१९) इति वः। ताने यथा-शुल्वं भवति काञ्चनम् । यज्ञकर्म यज्ञक्रिया । आचारश्चरित्रम् । जलसन्निधिः जलसमीपम् ।।५२७॥ सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः। पिशाचादावात्मभावे बले प्राणेषु जन्तुषु । सीदन्त्यस्मिन् सत्वम् । "प्रह्वाह्वा" (उ० ५१४) इति साधुः। सतो भाव इति वा । गुणे पिशाचादौ बले जन्तुषु च पुक्लीबः। द्रव्यं पारिभाषिकम्