________________
AM
द्वितीयः काण्डः
(२९९) विश्वाः सुरेषु विश्वन्तु, शुण्ठयां भुवनकृत्स्नयोः ॥ विश्वा विषायां शिवं तु, मोक्षे क्षेमे सुखे जले ॥५२५।। शिवो योगान्तरे वेदे, गुग्गुलौ वालुके हरे ॥
पुण्डरीकद्रुमे कीले शिवा झाटामलोमयोः ॥५२६।। लट्वा पक्षिकुसुम्भयोः। लटति लट्वा "लटि खटि (उ० ५०५) इवि वः। पक्षिभेदे यथा-लट्वाप्रदक्षिणा श्रेष्ठा। कुसुम्भे यथा-लट्वापुष्पस्तव किततटं भालपृष्ठं वहन्ती। लघ्वी ह्रस्वाविवक्षायां प्रभेदे स्यन्दनस्य च । लघुशब्दात् “स्वरादुतो गुणादखरोः” २।४।३५॥ इतिङयाम् । लघ्वी ह्रस्वा या विवक्षा तस्यां यथा-आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । स्यन्दनप्रभेदे यथा-क्षिप्तावरोधाङ्गनमुत्पथेन गां विलय लघ्वी करभौ च भञ जतुः(बभञ्जतुः)। विश्वाः सुरेषु । विशन्ति विश्वाः (विशति विश्वः)। "निघृषि" (उ० ५११) इति किद् वः। सुरादेवविशेषाः पृभूम्नि । यदाहः साध्यास्त्रयोदश प्रोक्ता विश्वे देवाश्चतुर्दश । अत्र विश्व इति छान्दसत्वात्संज्ञायामपि जस इः। विश्वन्तु शुण्ठयां भुवनकृत्स्नयोः। शुण्ठयां नगरे स्त्रीक्लीबः। भुवने क्लीबे कृष्णे वाच्यलिङ्गः। भुवने यथा-सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव । कृत्स्ने यथा-विश्वं जगद्विशति शक्तिभिरेक ईशः। विश्वा विणायाम् । विषा ओषधिभेदः। शिवं तु मोक्षे क्षेमे सुखे जले । शेरतेऽस्मिन्ननेन वा शिवम् । “शीड़ापो हस्वश्च वा” (उ० ५०६) इति वः। मोक्षे क्षेमे सुखे च यथा-विभ्रद्ब्रह्मशिरः शिवाय जगतामेणाङ्कचूडामणिः। क्षेमवत्यपि मखः। यथा-शिवास्ते सन्तु पन्थानः। अशिवः शिवारुतैरिति । जलमम्बु ॥५२५।। शिवो योगान्तरे वेदे गुग्गुली वालुके हरे । पुण्डरीकद्रुमे कीले।