________________
द्वितीयः काण्डः
(३०३)
कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः ॥ कुशी लोहविकारे स्यात्कुशा वल्गा कुशं जले ॥५३२॥ केशः शिरसिजे पाशपाणौ होवेरदैत्ययोः ॥ क्लेशो रागादौ दुःखे च, कोशः कोष इवाण्डके ।।५३३॥
भेदे यथा-वर्जयेत् काशवांश्चौर्यम् । कीशः कपो दिगम्बरे । कायति कीशः। “ति निश" (उ० ५३७) इति साधुः। द्वयोर्यथाकीशः कस्य न हास्याय ॥५३१॥ कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः। कुश्यति कुशः। कंश्यति कौशते इति वा । "क्वचित्" इति ः। कौते वा “को वा" इति कित् शः। दर्भे पुंक्लीबः। पापिष्ठमत्तयोर्वाच्यलिङ्गः। रामसुते दर्भे च यथा - सती कुशलवोत्सृष्टगर्भक्तेदौ तदाख्यया। कविः कुशलवावेव चकार किल नामतः। पापिष्ठः पातकी । योक्त्रं योत्रम् । मत्तः क्षीवः। कुशी लोहविकारे स्यात् । “भाजगोण" २।४।३०। इति ङ्या कुशी । यथा-कुशीलतैव यत्तेषां चिराय न सहिष्यते । कुशा वल्गा । वल्गा अश्वमुखरज्जुः। यथाकुशासक्तकरास्तत्र परलोकजिगीषवः। अश्वप्रचारसद्योगा रेजुर्वीरा महाहवे। कुशं जले यथा-कुशेशया ताम्ररुचा करेण। एतच्छब्दविषय एवास्य प्रायेण प्रयोगः। यथाकौमोदकी शब्दविषय एव । विष्णुवाचिनः कुमोदकशब्दस्य ॥५३२॥ केशः शिरसिजे पाशपाणौ हीवेरदैत्ययोः। क्लिश्यते इति केशः। "क्लिशः के च" (उ० ५३०) इति शः। केशते इति वा “क्वचित्" इति डः। कस्येशो वा चतुर्वर्थेषु । शिरसिजे यथा-मयि जीवति यत्तातः केशग्रहमवाप्तवान् । पाशपाणौ प्रचेतसि यथा-केशो न वेशान्तशतैरपि रज्यते ।