________________
प्रथमः काण्डः
टटट
सद्विद्यमाने सत्ये च प्रशस्तार्चितसाधुषु ॥ भः शुक्रे भमुडौ भांशी, भूस्तु भूमिरिव क्षितौ ।हा मसायनौ। जानाति शः “नाम्युपान्त्य प्रकृगशः कः” (५।१।५४) विचक्षगे वाच्य लिङ्गः शेषयोः पुंसि। विचक्षणे यथा-अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । पद्मासनो ब्रह्मा । चान्द्रमसायनिर्बु धस्तत्र यथा- चन्द्रार्क जीवनसितार्किवक्राः ॥ ८॥ अथ तान्तः । सद् विद्यमाने सत्ये च प्रशस्तार्चितसाधुषु । अस्तीति सन् वाच्यलिङ्गः । विद्यमाने यथा सन्तोऽप्यसन्त इव चेत् प्रतिभान्ति भानेः'। सत्ये यथा-'यदेवार्थक्रियाकारि तदेव परमार्थसत् । प्रशस्ते अचिते साधौ च यथा-'निर्मत्सरा एव गुणेषु सन्तः ।' सत्वविदुषोरपि ॥ अथ भान्तः॥ भः शुक्रे । भाति भः; "क्वचित्' इति डः यथा-प्रवेशने नाभिमुखः शुभो भः । भमुडौ । उडौ नक्षत्रे यथा-सा दिशौ दधति भानि सहस्ररश्मि प्राच्येव दिग् जनयति स्फुरदशुजालम् । भांशौ । भानं भा। "मृययेच्छा" (५/३/१०१) : इत्यङ्ग । अंशौ किरणे स्त्रियां यथा- 'जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयः । भूस्तु भूमिरिव क्षितौ स्थाने च । भवत्यस्याः सर्वमिति भूः “भ्यादिभ्यो वा" (५/३/११५) इति किए । “कृ भूभ्यां कित्” इति मौ भूमिः स्त्रीलिङ्गौ । भूमिरेवेति उपमानद्वारेण सिद्धतया उद्देश्यस्य कथनं, तेन भूमिशब्दस्यापि क्षितिस्थानलक्षणम् अर्थद्वयं सिद्धम् । एवमन्यत्रापि उपमानोपमेयभावोऽभ्यूह्यः । लाघवार्थ द्विस्वरस्यापि अत्र पाठः । क्षितौ यथा-भगवतीभूरद्य राजन्वती भूमि कामगविंश्च गोमयरसैराशिंच । स्थाने यथा दृष्टिविष्टपचन्द्रिकास्तनतटी लक्ष्मीनटी नाट्यभूः । आभूमिर्भावीनां भुजविजितसीमान्तनृपतिः ॥९॥ अथ मान्तः ॥