________________
अनेकार्थ-कोंषः सटीकः
स्थाने च मः पुनः शंभौ, मा लक्ष्भ्यां वारणेऽव्ययम् किं क्षेपनिन्दयोः प्रश्ने वित. ज्या तु मातरि ॥१०॥ क्ष्मामौर्योदयुर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि ॥
ररतीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ॥११॥ मः पुनः शंभौ। मन्यते मीयते वा मः। "क्वचित्" इति डः । मा लक्ष्म्यां वारणेऽव्ययम्। लक्ष्म्यां स्त्रो यथा-यस्मात् फलं न खलु मालवमात्रमेव । वारणे निषेधे तु अव्ययम् यथा-मा मांस स्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः। किं क्षेपनिन्दयोः प्रश्ने वितर्के । कौति किम् 'कोर्डिम्' वाच्यलिङ्गः। क्षेपो धिक्कारपूर्विका निन्दा तत्र यथा-'नोचेद्विक्रमसंक्रमस्य घटितां रामस्थ राज्यश्रियम् । हर्तुं को भरतः सुदुधरधनुर्बद्धेक्षणे लक्ष्मणे। निन्दायां यथा-मर्त्यः कोऽपि समस्ति मांसनयनो नद्धाङ्गभूर्धातुभिः'। प्रश्ने यथा-कोयं द्वारि हरिः प्रयात्युपवनम् । वितर्के यथा-कोऽहं कस्मिन् कथमा (कुत आ)यातः का मे जननी को वा तातः । अव्ययमपि ॥ अथ यान्ताः॥ ज्या तु मातरि क्ष्मामौयोः। जिनाति ज्या "क्वचित्” इति डः स्त्रियाम् ॥१०॥ क्ष्मायाँ यथा-शशास शय्यापरै रजय्याम् । मौा यथा -'पत्री नैष सहिष्यते मम धनाबन्धबन्धूकृतः । द्युर्दिने वह्नौ । द्युपते अभिगम्यते युः ‘युद्रुभ्याम्' इति डुः पुंसि दिने यथा-उद्दामामणि युतिव्यतिकर-प्रक्रीडदोंपलज्वालाजालजटाल-जाङ्गलतटीनिष्कूज-कोयष्टयः'। वास्तु स्वर्गे विहायसि । द्यूयते द्यौः " युगतिभ्यां डोः” स्त्रियां स्वर्ग यथा'द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ।)