SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अनेकार्थ-कोषः सटीकः २ जूराकाशसरस्वत्यां पिशाच्यां जवनेऽपि च ॥ ज्ञः स्याद्विचक्षणे पद्मा-सने चान्द्रमसायनो ॥ ८ ॥ प्रन्थिमतीं वसानं। त्वचाख्ये गन्धद्रव्येऽपि यथा-'एलापत्रत्वचा वासाः। एष्वेवार्थोषु त्वचशब्दोऽकारान्तोऽप्यस्ति । न्यगे निम्ने नीचकात्ययोः । न्यञ्चति न्यक्। निम्नं गभोरम् । नीच खर्वम् । कात्न्यं सामस्त्यम् । तत्र प्रायः क्रियाविशेषणम् । शेषयोर्वाच्यलिङ्गः । नीचे यथा-तेऽपि न बिभ्रति शोभा श्रीमन्तो न्यगू नयन्ति ये गुणिनः'। रुक् शोभाकिरणेच्छासु। रोचनं रोचते वा रुक स्त्रियाम् । शोभायां यथा- भेजेऽभितः पातुकसिद्धसिन्धोरभूतपूर्वा रुचमम्पुराशेः। किरणे यथा-प्रावी नरियन्ति किंवनरुवो राजीवजीवातवः । इच्छायां या-धर्मरूवा दानरुवा भवितव्यं सत्यतत्त्वरूचिना च। वाक् भारत्यां वचस्यपि। वक्ति उच्यते वा वाक् । दिद्युददिति साधुः। (सि. ५-२-८३ ) स्त्रियां । द्वयोर्यथा-पट्टी वाचमुपासते हि बहवः ॥७॥ अथ जान्तः ॥ जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च । जवते जूः “दिद्युद्ददिति साधुः। आकाशसरस्वत्यां पिशाच्यां च स्त्रियाम् । जवने वेगवति वायलिङ्गः । पिशाच्यां यथा-जूयोषितः पितृवनं परितश्चरन्ति'॥ अथ शान्तः ॥ ज्ञः स्याद्विचक्षणे पद्मासने चान्द्र१ प्र. जूराकाशे सरस्वत्यां । २ प्र० सायने ३ अन्यत्र जो जन्यां जातमात्रे च मृत्युञ्जये जनार्दने । जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ॥ ८ ॥ ज्ञः स्याद्विचक्षणे पद्मासने चान्द्रमसाय ता जटायां राक्षस्यां पतने दुर्भगस्त्रियाम् ॥९॥
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy