________________
प्रथमः काण्डः
-
-
--
शून्ये विन्दो सुखे खस्तु पूयो गौरदके दृशि ॥ स्वर्ग दिशि पशौ रश्मौ वज्र भूमाविौ गिरि ।६। त्वक् वल्कले चर्मणि च, न्यग् निम्ने नीचकाल्पयोः। रुक् शोभाकिरणेच्छासु वाग भारत्यां वच यपि ॥७॥ डित् खः स्वः स्वर्गः संवित् संवेदनम्, षट्स्वपि क्लीबम् । स्वर्ग यथा- 'तस्मिन् गते खं सुकृतोपलब्धम्। संवित्सुखयोर्यथायोगिनः खे निलीयन्ते । व्योमेन्द्रिययोथा-रुद्ध्वा खमार्गमखिलं बत योऽवतस्थे ॥ ५॥ शून्यबिन्दौ यथा-संगुणने खेन च खमेव । खस्तु सूयें यथा-'फ्रान्तं खेन सुखेन खम्॥ अथ गान्तः ॥ गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वज्रे भूमौ इषौ गिरि । गच्छति गौः “युगतिभ्यां डोः” ॥ (सि. उ. ८६७ ) दशस्वर्थेषु स्त्रीपुंसः । अन्ये तु वागादौ स्त्रियाम् । स्वर्गादौ पुसि । पशौ द्वयोः । जलाक्ष्णोः क्लोबे इत्याहुः । उइके यथा- गावो वहन्ति विमलाः शरदि स्रवन्त्याम्। दृशि यथा- गोजलाद्रितकपोलतलास्ताः । स्वों यथा-‘स गोपतिर्वज्रविघट्टनेन'। दिशि यथा- 'गोभ्यः संभृतसद्वित्तः। पशौ यथा- गावश्चरन्ति कमलानि सकेसराणि 1 रश्मौ यथा-'गावो वः पावनानाम् ,'! वज्रे यथा- गो घातेनैव शैलाः'। भूमौ यथा-गामात्तसारां रघुरप्यवेत्य । इषौ यथा‘गोभिः संभिन्नसंनाहः । गिरि यथा- तथेति गामुक्तवते दिलीप ॥ ६ ॥ अथ चान्ताः॥ त्वक् वल्कले चर्मणि च । त्वचति संवृणोति “क्विप्" त्वक् तनोति वा तने डर्वच स्त्रियाम् । वल्कले यथा- त्वक् तारवी निवसनम् । चर्मणि यथा- मृगत्वचं * प्रत्य० मुखे !