________________
(२९२)
अनेकार्थसंग्रहः सटोकः
वने दर्वी फणातक़र्वी स्यादेवदारुणि ।। हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने ॥५१३॥ देवं हषीके देवस्तु नृपतौ तोयदे सुरे ॥
देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥५१४॥ वने यथा-वाधेतोल्काक्षयितचमरीवाल भारो दवाग्निः। अधिज्य धन्वा विचचार दावम् । दर्वी फणान्तोः । दृणाति दविः । "हप वृभ्यो विः” (उ० ७०४) ङयां दर्वी । फणायां यथापृथुविभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः। तर्द्ध(९)र्दारुहस्तः। तत्र यथा-नानाप्रकाररसमध्यगताऽपि दर्वी स्वाद रसस्य सुचिरादपि नैव वेत्ति । दार्वी स्याद्देवदारुणि । हरिद्राद्वितये चापि । दृणाति दार्वी । “कृवापाजि" (उ० १) इति उण् । गौरादित्वाद्डोः। देवदारुवृक्षभेदः। हरिद्राद्वितयं हरिद्रा दारुहरिद्रा च । दिवं खे त्रिदिवे दिने । दोव्यन्ति अत्र दिवम् । स्थादित्वात् कः। खे आकाशे त्रिदिवे स्वर्गे च यथा-न केवलं सद्मनि मागधीपतेः पथि व्यāभन्त दिवौकसामपि । दिने दिवसे यथा-दिवेश्वरं स त्रिदिवेशवन्द्यम् । प्रायेण वृत्तिविषयेऽस्य प्रयोगः ॥५१३।। देवं हृषीके। दोव्यति देवम् । लिहादित्वादच् । हृषीकमिन्द्रियम् । देवस्तु नृपतौ तोयदे सुरे। नृपतौ यथा-देव त्वद्गुणकीर्तनेन सुखयत्याखण्डलं नारदः। तोयदे यथा-देवे वर्षति कर्षकैविकसितं धाराकदम्बैरिव । सुरे यथा-देवासुरैरमृतमम्बुनिधिर्ममन्थे । देवी कृताभिषेकायां तेजनीस्पृक्योरपि । गौरादित्वाद्डीः। कृताभिषेकायां यथा-देवीभावं गमिता परिवारपदं कथं भजत्येषा। तेजनी मूर्वानाम