________________
द्वितीयः काण्डः
rrrrrrrrrrrrrrrrrrrrrrrrrrrronnonwronorrornoonrnwwwnny
धवो धूर्ते नरे पत्यौ द्रुभेदेऽथ ध्र वो वटे ।। वसुयोगभिदोरातौ शङ्कावुत्तानपादजे ॥५१५।। स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजलतर्कयोः । ध्र वा मशालपर्योः स्त्रग्भेदे गीतिभिद्यपि ॥५१६।।
लता। स्पृका गन्धद्रव्यविशेषः ।।५१४।। धवो धूर्ते नरे पत्यौ द्रुभेदे । धुनोति धवः। धूर्तो वञ्चकः। नरो मनुष्यः। पत्यौ भर्तरि यथा- भर्तुमित्रं प्रियमविधवे विद्धि मामम्बुवाहम् । द्रुभेदे वृक्षविशेष यथा-धवलकुचसमेतं यौवनं वा वनं वा । अथ ध्रुवो वटे । वसु योगभिदोरातौ । शङ्कावुत्तानपादजे स्थिरे नित्ये निश्चिते च । ध्रुवति ध्रुवः। 'तुदादिविषि' (उ० ५) इति किदः। स्थिरनित्ययोर्वाच्यलिङ्गः। निश्चिते पुंसि । क्लीबे इत्यन्ये । वटो न्यग्रोधः। वसुभित् देवविशेषः। योगभिदि यथा-गण्डो वृद्धिध्रुवश्चैव । आतिः। शरारिः। शङ्कौ स्थाणौ यथा-द्वादशाङ्गल. माने तु पाशं निक्षिप्य वै ध्रुवे । उत्तानपादजो मुनिविशेषः । तत्र यथा-स्फुटतरभुपरिष्टादल्पमूर्तेर्बुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् ॥५१५।। स्थिरे निश्चले यथा-कदाभ वन्महाकाव्यं व्योमेवेक्षे ध्रुवस्थिति । नित्ये शाश्वते यथा-ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदम् । निश्चिते यथा-जातस्य हि ध्रुवो मृत्युर्धवं जन्म मृतस्य च । ध्रुवं खेऽजस्रतर्कयोः। खे आकाशे यथा-ध्रुवं ध्रुवन्ति ग्रहमण्डलास्पदम् । अजस्र यथा-ध्रुवं दत्ते वित्तं द्विजपरिवृढेभ्यः क्षितिधवः। तर्क वितर्के यथा-ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लध्य गन्तुं तुरगास्तदीषुः। ध्रुवा मूर्वाशालपर्योः स्रग्भेदे गीतिभिद्यपि । मूर्वा ओषधिः। शालपर्णी
*भिदोः शम्भौ शङ्कावुत्तानपादजे ।