________________
द्वितोयः काण्डः
(२९१)
प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्व माहवे ॥ रहस्ये मिथुने युग्मे दवदावौ वनानले ॥५१२॥
तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे च । तस्य भावस्तत्वं तन्यते वा । “प्रह्वाहा” (उ० ५१४) इति साधुः। परात्मनि यथाज्ञाततत्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् । व द्यभेदे यथाविलम्बितं द्रुतं मध्यमोघस्तत्वं घनं क्रमात् । स्वरूपे यथासरस्वत्यास्तत्वं कविसहृदयाख्यं विजयते । द्रवो विद्रवनर्मणोः । प्रद्रावे रसगत्योश्च । द्रवत्यनेन द्रवणं वा द्रवः। पञ्चस्वर्थेषु । विद्रवे पलायने यथा-द्रवं द्रविडराजोऽपि शिश्रिये त्वद्भयाद् द्रुतम् । निर्मणि क्रीडायां प्रद्रावे प्रस्रवणे च यथा-जात्येन चन्द्रमणिनेव महोधरस्य संचार्यते द्रवमयो मनसो विकारः ॥५११।। रसे यथा-अमृतद्रवैर्विदधदब्जदृशामेव मार्गमौषधिपतिः स्वकरैः । गतिर्गमनमात्रम् । द्वन्द्वः से। वन्द्यते द्वन्द्वः । “प्रह्वाह्व" (उ० ५१४) इति साधुः। स इति समासस्य संज्ञा । तत्र यथाद्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः। द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे । द्वौ द्वाविति द्वन्द्वम् । “रहस्य मर्यादोक्ति' ७।४1८३। इति साधुः। वन्द्यते इति वा। आहवे सङ्ग्रामे यथा-देवासुरद्वन्द्वविधायिनो मुनेः। रहस्ये यथा-द्वन्द्व न रात्रौ नृपमन्त्रणीयम् । मिथुनं स्त्रीपुंसयोयुग्मम् । तत्र यथा-द्वन्द्वानि भावं क्रियया विवक्रः। युग्मे युगलमात्रे यथा-हरचरणसरोजद्वन्द्वमुद्राङ्कमौलेः। गौडस्तु रहस्ये कलहे द्वन्द्वः क्लीबे मिथुनयुग्मयोरित्याह । दवदावी वनानले दवानले, वने । दुनोति दवः। दावः। ज्वलादित्वाण्णः। बनानले यथा-तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः। दावो नदीतीरसमुच्छ्रितोऽयं तोयं पिपासन्नवरोहतीव ।